पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७० काव्यमाला। तीतिपदस्य निश्चयपरत्वे रूपकवित्तावतिप्रसङ्गात् । विषयतावच्छेदकानवगाहित्वेन निश्चयो विशेषणीय इति चेत्, विशेष्यताम् । तथाप्यतिशयोक्तिवित्तावतिप्रसक्तिरवारितैव । अनाहार्यत्वेन निश्चयविशेषणत्वे पुनरस्मदुक्त एव पर्यवसितिः । मतुबर्थासंगतिश्च । तत्र 'कनक इव कान्तिकान्तया' इत्यत्र सीतातडितोर्बिम्बप्रतिबिम्बभावः । द्युतत्वमिलितत्वयोश्च शुद्धसामान्यरूपता। 'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले। धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः ॥' अत्र स्निग्धत्वश्यामत्वयोरनुगामित्वम् । इति रसगङ्गाधरे भ्रान्तिमत्प्रकरणम् । अथोल्लेखः- एकस्य वस्तुनो निमित्तवशाद्यदनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुल्लेखः । 'अधरं बिम्बमाज्ञाय मुखमब्जं च तन्विते । कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम् ।।' अत्र कीरचञ्चरीकाभ्यामधरवदनयोबिम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति । 'धर्मस्यात्मा भागधेयं क्षमायाः' इत्यादि मालारूपके प्रसङ्गवारणायानेकैर्ग्रहीतृभिरित्यविवक्षितबहुत्वकं ग्रहणविशेषणम् । 'नृत्यत्त्वबाजिराजिप्रखरखुरपुटप्रोद्धतैर्धूलिजालै- रा लोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते । आह-दीक्षितैरिति । निश्चयपरत्व इति । तथा च संशयसंभावनारूपयोस्तयोर्नातिप्रसङ्ग इति भावः । वित्तौ तज्ज्ञाने । अनाहार्यवेनेति । नन्वेवमपि कथमतिशयोक्तावतिव्याप्तिवारणम् । तस्यामनाहार्याभेदज्ञानस्यैव सर्वसंमतत्वालागुक्तत्वाच्चेति चेत्, चिन्त्यमेतत् । मतुबिति । भ्रान्तिमानिति मतुबित्यर्थः । अत्र धर्मभेदमाह- तत्रेति । उक्तोदाहरणानां मध्य इत्यर्थः । धाराधरो मेघः । शिखावला मयूराः ॥ इति रसगङ्गाधरमर्मप्रकाशे भ्रान्तिमत्प्रकरणम् ।। उल्लेखं लक्षयति-अथोल्लेख इति । ग्रहणं ज्ञानम् । कीराः शुकाः । चञ्चरीका भ्रमराः । नन्वेवं बहुवचनात्रिप्रभृत्येव स्यात् , द्वयोर्न स्यादत आह-अविवक्षितेति। नृत्यदिति । राजानं प्रति कवेरुक्तिः । अतुलेति । आलोकालोकम् ।