पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६४ काव्यमाला। अत्रातिमात्रतनुत्वं सौदामन्या, शोभाभिरामासितसर्वलोकात्वं च सितयामिन्या सह कान्तायाः पृथगनुगामी समानो धर्मः । अत्रैव पूर्वार्धगतविशेषणद्वयत्यागे स एवानिर्दिष्टः। बिम्बप्रतिबिम्बभावमापन्नो यथा 'तीरे तरुण्या वदनं सहासं-' इत्यादी प्रागुक्ते । यथा वा- 'सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्मा किमियं नु पद्मिनी । समुल्छसत्पाणिपदां स्मिताननामितीक्षमाणः समलम्भि संशयः॥ अत्र पल्लवफुल्लपद्मे पाण्याननयोः प्रतिबिम्बकोट्योः पृथङ् निर्दिष्टे । 'इदमुदधेरुदरं वा नयनं वारुतेश्वरस्य मनः । दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥' अत्र तदानीमिति प्रकरणसालाय्यवशाद्दशरथगृहेण धर्मिणाक्षिप्तस्य तत्कालजातस्य भगवतो रामस्य जलध्युदरादिसंशयकोटित्रयाक्षिप्तः साधारणश्चन्द्रः प्रतिबिम्बः । इमौ च बिम्बप्रतिबिम्बावनिर्दिष्टावपि प्रतीयमानौ सादृश्य प्रयोजयतः । एतेन 'अनुगाम्येवं धर्मों लुप्तः संभवति, न तु बिम्बितः' इति वदन्तः परास्ताः । इति दिक् । अयं च क्वचिदनाहार्यः, क्वचिदाहार्यः । यत्र हि कविना परनिष्ठः संशयो निबध्यते प्रायशस्तत्रानाहार्यः । यथा 'तीरे तरुण्याः', 'मरकतमणिमेदिनीधरो वा' इत्यादिषु प्रागुदाहृतेषु पद्येषु । तत्र भ्रमरादीनां संशयानानां ग्राह्यनिश्चयाभावात् । यत्र च स्वगत एव तत्राहार्यः । उपपादितमिदं प्राक् । सौदामन्येति । सहकान्तेत्यत्रान्वेति । वल्लरी लता । पाणिपदां स्मितेति । पादप्रतिबिम्बानिर्देशान्यूनतात्र । अत एव पाण्याननयोरित्यग्रिमोक्तिः संगच्छते । वस्तुतस्तु फुल्लपद्मं पाणिवत्पादयोरपि प्रतिबिम्ब इति न दोषः । व्याख्यानं तूपलक्षणत्वेन योज्यमिति बोध्यम् । कोट्यो वल्लरीपद्मिन्योः । बिम्बप्रतिबिम्बभावापन्नस्य निर्दिष्टस्योदाहरणं दत्त्वानिर्दिष्टस्य तदाह-एवमिति । चन्द्रस्य त्रिधोत्पत्तिः, स- मुद्रादत्रिनेत्रात्परमेश्वरमनसश्चेति भावः । तदानीं रामोत्पत्तिसमये। नीमिति प्रति । तदानीमिति । प्रतिपाद्यप्रकरणेत्यर्थः । इमौ रामचन्द्रौ । अयं च संशयः । परनिष्ट इति । स्वभिन्ननिष्ठ इत्यर्थः । क्वचिद्व्यभिचारादाह-प्रायश इति । अनाहार्यत्वमुपपादयति-तत्रेति । 'संशयानानां' इति पाठः । भ्रमरादिविशेषणमेतत् । एवेन परनिष्ठत्व-