पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ काव्यमाला। एवं च संशयमात्रस्य शक्त्या बोधनाद्वक्षःस्थलस्थितैवेत्यादि विषयभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम् । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकैः सिद्धान्तितत्वात् । तथा च द्वितीयोद्योते- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृतिर्ध्वनेः ॥' इति सूत्रयित्वा "संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥' अत्र संकेतकालमनसं ज्ञात्वा लीलापद्नं निमीलितमिति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वक्त्यैव निवेदितामिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्ग्यस्य मार्गः । यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्यायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' मात्रस्य सर्वस्य संशयस्य । अर्थत्वेन सामेति । एतद्रूपसामान्याकारणेत्यर्थः । अवलीढेति । बोध्यतयेत्यर्थः । तयैव शक्त्यैव । कवलीति । बोधनादित्यर्थः । नन्वेवमपि विशेषरूपेण व्यङ्गयत्वमेवात आह-वाच्यार्थेति । विशेषसंशयस्येत्यादिः। तदाह- कस्यापीति । विशेषस्यापीत्यर्थः । सर्वथा केनापि प्रकारेण । तथात्वं ध्वनित्वम् । संकेतेति । को वावयो रतिकालस्तत्संकेतमित्यत्र दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेषणम् । इति वदति। क्रान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्त्वान्तवाक्येनैवार्थात्तदभिव्यञ्जकत्वे सिद्ध क्तान्तवाक्यानर्थक्यं स्पष्टमेव । तदाह-स्वोक्त्यैवेति । क्रान्तवाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे । एवमग्रेऽपि । कुम्भेति पान्थसंबोधनमिति कश्चित् । तन्नामिका दासीत्यन्यः । जलाद्याहरणार्थ दासी, न क्रीडादासीति तु तत्त्वम् । वियोगात्पापात्वम् । कतिपयेत्यनेन द्रुतमागमनाभावः सूचितः । अवसरे समये उक्तेर्व्या-