पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथ परिणामध्वनिर्विचार्यते- तत्र यत्तावदप्पदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्-"तथाहि- 'नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥' अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते” इति तदयुक्तम् । तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मनेति तदसत्, अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमानं कवेरभिप्रेतम्, येन यशःकर्तृकाक्रमणो नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात् । अपि तु निरतिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्तः प्रौढिविशेषः । आक्रमणं तु न्यग्भाव एव । एवं चैवविधविजृम्भणे चन्द्रकर्मकमेव क्रमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणाम- संदेह एव" इति प्राहुः । तदाह-दिगिति । दूषितमित्यस्य चन्द्रात्मनेतीत्यन्तेनान्वयः। अत्र प्रागुक्तपद्ये । एवं च विजृम्भमाणाक्रमणयोरुक्तरूपत्वे च । गुणवत्तायां तद्रूपसाधारणधर्मे । रमणीयमेवेति । अत्रेदं चिन्त्यम्-राजशब्दस्यानेकार्थत्वात् , विजृम्भतेश्च प्रागल्भ्यतदुक्तार्थोभयपरत्वात् , प्रकरणादेश्च शक्तिसंकोचकस्याभावात् , तन्त्रेण शक्त्यैव तुल्यतयार्थद्वयोपस्थितौ 'सर्वदोमाधवः पातु' इतिवत् श्लेष एवायं क परिणामः क्व वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंहराजोत्कर्षस्य चन्द्रकर्मकाक्रमणेनेवेतरनृपाक्रमणेनापि सूपपादत्वात् । न च द्वयोरपि राजपदार्थयोरितरक्रियान्वये राजानाविति द्विवचनं स्यादिति वाच्यम् । 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः । समाहारद्वन्द्वविषयेऽप्येकशेषस्य कैश्चिद्वैयाकरणैरङ्गीकाराच्च । अस्तु वारोपः, तथापि नृपस्यैवारोप्यमाणत्वं चन्द्रस्यैव विषयत्वमित्यत्र नियामकाभावः । अत्रैव च दीक्षिततात्पर्यम् । अपि च प्रागल्भ्यस्यापि विजृम्भत्यर्थत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभवति । अत एव विद्याधरेणापि विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो विषयात्मनोपरिगत्यपेक्षायामेव परिणाम इत्युक्तम् । यदाह-'तं परिणामं द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ॥' इति । ननु तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगित्वमस्त्येवेति चेत्, तस्यैव तात्पर्यविषयत्वे मानं