पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४८ काव्यमाला। अथ परिणाम:- विषयी यत्र विषयात्मतयैव प्रकृते प्रकृतोपयोगी न स्वातन्त्र्येण स परिणामः। अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपकादस्य भेदः। अयमुदाह्रियते- 'अपारे संसारे विषमविषयारण्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात्संतापं हरिनवतमालस्तिरयतु ॥' भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम् । मार्गश्रान्तजनसंतापहारकत्वाद्रमणीयशोभाधारत्वाञ्च तमालो विषयितयोपात्तः । अयं समानाधिकरणो वाक्यगः। परिणामं लक्षयति-अथेति । विषयी उपमानम् । विषयेति। उपमेयेत्यर्थः । एवव्यावत्यमाह-न स्वातन्त्र्येणेति । स्वस्वरूपेणेत्यर्थः । तत्रेति शेषः । स विषयाभेदः। अत्र च परिणामे च नैवमिति । किं तु विपरीतमिति भावः। रूपकादस्य भेद इति । वयं तु ब्रूमः-उपमानप्रतियोगिकाभेदो रूपकम् । उपमेयप्रतियोगिकाभेदः परिणामः । प्रतीपवत् तत्राभेदे उपमेयप्रतियोगिकत्वतात्पर्यग्राहकं प्रकृतकार्योपयोगः । न तु तच्छरीरेऽस्य प्रवेशः । एवं च यत्रोपमानस्य स्वात्मनैव प्रकृतकार्योपयोगो यत्र चोदासीनता तत्र रूपकमेव । एवं च परिणामो विशेषणसमासायत्तः । रूपकं मयूरव्यंसकादि समासायत्तं मुखचन्द्र इत्यादौ । यदि तु चन्द्रमुखमिति विप्रयुज्यते तदा विशेषणसमासायत्तमपि रूपकमिति । परे तु "उपमानोपमेयपदानामुपमानप्रतियोगिकाभेदसंसर्गेण बोधकानां 'मयूरव्यंसकादयश्च' इति समासेन विशेषणसमासबाधाच्चन्द्रमुखमिति प्रयोग एव न" इत्याहुः । भ्रामं भ्रामं भ्रान्त्वा भ्रान्त्वा । एवमग्रेऽपि । विगलितेति क्रियाविशेषणम् । हरिरेव नवतमालः । भक्तोक्तिरियम् । भगेति । अत्रेत्यादिः । ननु हरेविषयित्वेन रूपकमेवेदमत आह-मार्गेति । महर्षेरिति । शुकदेवस्येत्यर्थः । श्रावं श्रावं वचःसुधामिति विशिष्टं समस्तमेकं पदम् । मयूरव्यंसकादित्वात् । स्नात्वाकालक इतिवत् । प्रकृतकार्योपयोगित्वपर्यन्तस्य परिणामशरीरत्वात् । अत एव तिरयतुपदस्यासमस्तत्वात्पूर्वोक्तस्य वाक्यगत्वमित्याहुः । क्वचित्तु 'हरिरिह तमालः' इति पाठः । तत्र वाक्यगत्वं स्पष्टमेव । तदा वचःसुधामित्येव । श्रावं श्रावमिति भिन्नं पदमिति बोध्यम् । उप(अभि).