पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

णनेऽगणनप्रसङ्गात् । एतेन गवां संघातो गोमेदानां कपिलादीनां गणनायां यथा न गण्यते तथौ रूपकभेदगणनाप्रस्तुतौ न तत्संघातात्मकं सावयवं गणनीयम्' इति परास्तम् । एवमस्मात्संघातात्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्वपरस्परनिरपेक्षत्वाभ्यामस्ति महान्विशेषः। निरवयवं केवलं यथा- 'बुद्धिर्दीपकला लोके यया सर्वं प्रकाशते । अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ॥' अत्र रूपकद्वयमपि सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम् । मालात्मकत्वविरहाच्च केवलम् । निरवयवं मालारूपकं यथा- 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः । आज्ञा साक्षाब्रह्मणो वेदमूर्तेरा कल्पान्तं राजतामेष राजा ॥' एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । परस्परसापेक्षत्वविरहाच्च निरवयवम् । यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम् । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेषमूलकत्वे श्लिष्टपरम्परितम् । यथा- 'अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनी चरतः ॥' अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहितानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयकतया कवेरभिप्रायः । अत एव भङ्गश्लेषनिवेदितोऽहिमयाभावोऽपि संगच्छते । एकविषयत्वेति । एतौ च मालारूपकनिष्ठौ धर्मौ । सावयवत्वानेकविषयकं परस्परसापेक्षं चेति बोध्यम् । शारदायाः सरस्वत्याः । साक्षादिति । अप्रतिहतशक्तित्वादिति भावः । एकेति । राजेत्यर्थः । द्वयोरपीति । अहिसंबन्धतापकरणभेषजारोपयोरित्यर्थः । 'समर्थनीयतायाम्' इति पापः । कवेरिति । प्राधान्यादिति भावः । अत एव तस्य ता- ३०