पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तत्र- परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम् । तत्रापि- समस्तानि वस्तून्यारोप्यमाणानि शब्दोपाचानि यत्र तत्समस्तवस्तुविषयम् । यत्र च क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन वर्तनादेकदेशविवर्ति । यद्वा- एकदेशे उपात्तविषयिक अवयवे विशेषेण स्फुटतया वर्तनादेकदेशविवर्ति । समस्तवस्तुविषयं सावयवं यथा- 'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥ अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुतः समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वेनाभिप्रेतत्वात्समर्थकतयोपादानमितरेषामिति गम्यते । एवं स्थिते समर्थकरूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्यरूपकस्य तयोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । भटसंघातान्तर्गतस्य'मुख्यस्य कस्यापि भटस्य जयपराजयाभ्यां भटसंघातो जितः पराजितश्चेत्युच्यते । तत्सूचितारुचिस्त्वग्रे स्फुटीभविष्यति । यत्र च यत्र तुसंघातात्मकसावयवरूपके । अवयवरूपके इति । रूपकसंघातस्यावयविनोऽवयवे कस्मिंश्चिद्रूपक इत्यर्थः । विवर्तनादिति । विरुद्धतया वर्तनादित्यर्थः । विरुद्धत्वमेवाह-स्वेति । विनिगमनाविरहादाहयद्वेति । अवयवे अवयवरूपके । अवयवानां मुक्तानक्षत्रवस्त्रज्योत्स्नामुखचन्द्रनायिकापूर्णिमारूपाणाम् । अभिप्रेतेति । विधेयत्वेन वर्ण्यत्वादिति भावः । तयोर्विषयविषयिणोः । तदादाय तदीयविधेयत्वमादाय । अत्र पद्ये । अन्यधर्मेणान्यत्र व्यपदेशे मान-