पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २२९ त्वविशेषणवैयर्थ्य च । भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया नास्त्युपमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात् । अपि च 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इति कुवलयानन्दे त्वयोक्तायामपद्भुतावतिप्रसङ्गः । अत्र सुधांशौ सुधांशुत्वनिह्नवेऽप्यारोपविषयस्यानि- ह्नवात् । न चेदं रूपकमेवेति वाच्यम् । त्वदुक्तिविरोधापत्तेः । यच्चाप्युक्तमव्यङ्ग्यत्वविशेषणाच्चेदमेवालंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न । नहि व्यङ्ग्यत्वालंकारत्वयोर्विरोधोऽस्ति । प्रधानव्यङ्गयरूपकवारणाय पुनरुपस्कारकत्वं विशेषणमुचितमित्यसकृदावेदनात् । अनलंकार- त्वस्य तुल्यतया प्रधानव्यङ्गयरूपकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रापि प्रसङ्गाच्च । यच्च 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादि प्राचीनैरुक्तं तच्चिन्त्यम् । अपहृत्यादावुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रसङ्गात् । अथोपमानोपमे- ययोरित्युक्त्या उपमेयतावच्छेदकं पुरस्कृत्योपमानतावच्छेदकावच्छिन्ना- अत्र निषेधप्रतियोगिविधया निर्दिष्टत्वादिदं चिन्त्यम् । न च तथा निर्दिष्टत्वेऽपि पुरस्काराभावः । तर्हि तावत्पर्यन्तविवक्षाबोधनार्थमेवानिगुते इति विशेषणसाफल्यादिति बोध्यम् । तावतैव उक्तार्थकनिर्दिष्टे इति विशेषणेनैव । इदं चिन्त्यम् । आहार्यत्वविशेषणस्य निर्दिष्टे इति विशेषणलब्धार्थकथनतात्पर्यकत्वात् । अतिशयोक्तौ लक्षणामाहात्म्याज्जायमानज्ञानस्यानाहार्यस्यैव जायमानत्वेन तावतैव वारणात् शक्यतावच्छेदकलक्ष्यतावच्छेदकयोर्भानमिति त्वल्लिखितमतान्तरेऽपि युगपदेवोभयोर्भानेन बाधस्यैवानुपस्थितत्वान्न तद्बुद्धेराहार्यत्वम् । किं च चन्द्रवृत्तिगुणवत्त्वलक्ष्यतावच्छेदकस्य चन्द्रत्वस्य च मिथो विरोधाभावेन न बाधप्रतिसंधानम् । मुखत्वेन मुखं लक्ष्यत इति त्वश्रद्धेयमेव । रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षाद्वयञ्जनया वा जायमाना ताद्रूप्यप्रतिपत्तिरा- हार्यैवेति दीक्षिताशय इति दिक् । अपहृतौ पर्यस्तापह्रतौ । विषयस्य सुधांशोः । इदमपि चिन्त्यम् । उपमेयोपमादीनां वैचित्र्यविशेषेणालंकारान्तरत्ववदिहाप्युपपत्तेः । मता- न्तरेऽप्यभेदादिकृते चमत्कारे रूपकम्, निह्नवादिकृते तस्मिन्स्तु सेति विषयविभागसंभवात् । चमत्कारित्वस्यालंकारसामान्यलक्षणप्राप्तत्वात्समुदितस्यालंकारत्वेनांशे रूपकत्वे इष्टापत्तेश्चेति दिक् । चित्रमीमांसायामप्पदीक्षितोक्तमन्यदपि खण्डयति-यच्चा- पीति । इदमेव प्रागुक्तं रूपकलक्षणमेव । नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह-प्रधानेति । नन्वेवमपि विनिगमनाविरहात्तथोक्तिरत आह-अनलमिति । मन्मते तु तेनैवोभयोर्वारणमिति भावः । प्रकाशोक्तिं खण्डयति-यच्चेति । तथापि उक्तार्थांङ्गी-