पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। २२३ अत्र स्मृत्यैव घनसादृश्यं भगवतः प्रतीयमानं वाच्यवृत्त्या कदर्थितं निवेद्यते । देवकीतनय इति तु साधुः । अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षानुपादानानुपादानयोरुपमायामिवात्रापि व्यवस्था । तथा हि उपमायां तावत्क्वचिद्धर्मों नियमेन प्रतीयमानः साक्षान्नोपादेय एव । यथा 'शङ्खवत्पाण्डुरच्छविः' इत्यत्र पाण्डुरत्वम् । 'शङ्खवत्पाण्डुरोऽयम्' इत्यादौ तु नानाविधेषु धर्मेष्वनेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात् । सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्य साधारणधर्मस्योपमाप्रयोजकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिधर्मों वाच्यतां नीयते । यथा वा 'अरविन्दमिव सुन्दरं मुखम्' इत्यादौ सुन्दरत्वादिः । न नीयते च क्वचित् । वक्तुरन्यस्यानुपस्थानात्प्रसिद्धेः प्राबल्यात् । यथा 'अरविन्दमिव मुखम्' इत्यादौ स एव । अप्रसिद्धश्च धर्मोऽवश्यं साक्षादुपादेयः । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयर्थ्यापत्तेः । यथा 'नीरदा इव ते भान्ति बलाकाराजिता भटाः' इत्यादौ श्लिष्टशब्दात्मकः । इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव । कश्चिदुपादेयानुपादेयश्च । कश्चिदुपादेय एवेति सहृदयसंमतः समयः । एवमेवोपमाजीवातुकेऽस्मिन्स्मरणालंकारेऽपि बोध्यम् । तत्रानुगामिनि धर्मे 'स्मृत्यारूढं भवति किमपि' इत्यादौ पद्ये निवेदितमेव स्मरणम् । बिम्बप्रतिबिम्बभावापन्नेऽपि धर्मे 'भुजभ्रमितपट्टिश-' इत्यादि पद्ये निरूपितम् । कुलिशपट्टिशयोर्भूधरदन्तावलयोश्च बिम्बप्रतिबिम्बभावात् । उपमेयविशेषणच्छविविशेषणतयोपस्थितपाण्डुरत्वस्यैव प्रत्यासत्या तत्र गम्यमानत्वादिति भावः । ननु धर्मान्तरस्योपमाप्रयोजकत्वाभावादेव नैव सादृश्यं स्वगमत आह-सर्वत्रैति । अस्य द्वितीयमुदाहरणं विशेषं वक्तुमाह-यथा वेति । न नीयते चेति । वाच्यतामित्यस्यानुषङ्गः । अनुपस्थितौ हेतुमाह-प्रसिद्धेरिति । स एवेति । सुन्दरत्वादिरित्यर्थः । बलाकाराजिता इति । बलाका बकपङ्क्तिस्तया राजिता: । बलाकाराभ्यामजितो इत्यर्थः । उपसंहरति-इत्थं चेति। यथोपमायामिति शेषः । जीवातुर्जीवनौषधम् । तत्र अनुपादेयादिधर्माणां मध्ये । स्मृत्यारूढमिति । अत्रानुगामी श्यामत्वधर्मोऽनुपात्तः । निरूपितं स्मरणमित्यस्यानुषङ्गः । एवमग्रेऽपि । अत्रोक्तहेतोस्तस्योपादानमित्याह-कुलिशेति।स पवनात्मज इत्यन्वयः। अत्रानयोः । आदिना कठिनत्वागाध-