पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

‘मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थमात्रस्य वि- भावानुभावव्यभिचार्यन्यतमत्वादिति दिक् ॥

तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः । तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वाखण्डम् । तस्याश्च हेतुः क्वचिद्देवतामहापुरुषप्रसादादिजन्यमदृष्टम् । क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ । न तु त्रयमेव । बालादेस्तौ विनापि केवलान्महापुरुषप्रासादादपि प्रतिभोत्पत्तेः । न च तत्र तयोर्जन्मान्तरीययोः कल्पनं वाच्यम् । गौरवान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्च । लोके हि बलवता प्रमाणेनाग- मादिना सति कारणतानिर्णये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयमन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यते । अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णये भ्रमत्वप्रतिपत्तिरेव जायते । नापि केवलमदृष्टमेव कारणमित्यापि शक्यं वदितुम् । कियन्तं चित्कालं काव्यं कर्तुमशक्नुवतः कथमपि संजातयोर्व्युत्पत्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात् । तत्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः


तस्य च काव्यस्य । केवलेत्यनेन निपुणतादिव्यावृत्तिः । शब्दार्थोपेति । शब्दार्थोभयेत्यर्थः । उपाधिर्वेति । उपाधित्वपरित्यागेन तत्त्वाङ्गीकारे बीजमित्यर्थः । नीलघटत्वादिवत्सखण्डोपाधिरेवेति वार्थः । ‘अखण्डम्' इति पाठस्तु चिन्त्य एव । तस्याः प्रतिभायाः । आदिना तपआदिपरिग्रहः । व्युत्पत्तीति । लोकशास्त्रादिविष​येत्यर्थः । न तु त्रयमेवेति । प्रतिभात्वावच्छिन्नं प्रति मिलितं त्रितयमेव कारणमिति नेत्यर्थः । एवकारेण क्वचित्रितयस्यापि कारणत्वमिति ध्वनयति । विलक्षणत्रितयजन्यप्रतिभा चातिविलक्षणा । तज्जन्यं काव्यं चातिविलक्षणमेवेति न दोष इति दिक् । दोषान्तरमाह-मानेति । ननु कार्यान्यथानुपपत्तिरेव मानमत आह–कार्येति । केवलादृष्टाद​पीत्यर्थः । तदेव विशदयति-लोके हीति । लोकशब्दः प्रकृतेतरपरः । आगमः श्रुतिः । आदिना स्मृत्यादिपरिग्रहः । अत एव बलवत्त्वम् । अन्यथा तु, बलवतागमादिना तदनिर्णये तु । एवेन प्रमात्वव्यावृत्त्या कार्यासाधकत्वं सूचितम् । केवलपदं स्पष्टार्थम् । प्रतिभां प्रतीति शेषः । कथमपि केनापि प्रकारेण । व्युत्पत्यभ्यासयोः सतोरिति शेषः । ताभ्यां व्युत्पत्त्यभ्यासाभ्याम् । तस्याः प्रतिभायाः । तत्र व्युत्पत्त्यभ्यासप्राक्कालिकादृष्टविषये । एवं च तदानीं सा न । अनन्तरं कथमपि प्रतिबन्धकनाशे