पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

sen प्रस्पन्दमानपरुषेतरतारमन्त- श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥' इति कालिदासपद्ये प्रतिपाद्यायामुपमानोपमेययोर्युगपदुपमेयोपमानभावा- यामुपमेयोपमायां वाक्यभेदाभावादव्याप्तेश्च । न चात्रापाततः शब्दैक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम् । तथापि- 'सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्याप्तेः । न चेयमुपमेयोपमेति शक्यते वक्तुम् । सुखसमये दु:खदोऽपि सुखयति । दुःखसमये च सुखदोऽपि दुःखयति इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृशव्यवच्छेदापत्तेः। एवम्- 'रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' इत्यत्र परस्परोपमायामतिव्याप्तिः । सदृशान्तरव्यवच्छेदफलकत्वेन वि- शिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम् । यच्च विमर्शिनीकारेणोक्तम् “स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा-'रजोभिः स्यन्दनो तैः' इत्यादि । अस्याश्चोपमानान्तरतिरस्कार एव फलम् । अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्" इति, तत्तुच्छम् । न हि 'रजोभिः स्यन्दनोद्धूतैः' इत्यत्रोपमानान्तरतिरस्कारः प्रतीयते । द्वयोरुपमयोरेकधर्मकत्वाभावात्, आद्याया उपमाया अनुगामिधर्म- भावायामिति । उपमेयोपमानविकायामित्यर्थः । विधवतीत्यादीन्याचार क्विबन्तानि । यथासंख्यमन्वयः । न चेति । नहीत्यर्थः । तथा च लक्ष्यत्वान्नातिव्याप्तिरिति भावः । मात्रपदव्यवच्छेद्यं स्फुटत्वायाह--तृतीयेति । सहशान्तरेति । तृतीयसदृशेत्यर्थः । विशीति । विशेषविषयीकृते त्वित्यर्थः । तस्मिन्नुपमानोपमेयत्वे । अस्मदिति । तृतीयसदृशव्यवच्छेदेत्याद्युक्ते एवेत्यर्थः । विमर्शिनीति । अलंकारसर्वस्वव्याख्याकारेणेत्यर्थः । स चेति । मूलीयत्वेन प्रागुक्त इत्यर्थः । अस्या उपमेयोपमायाः । उपमानान्तरेति । तृतीयसदृशेत्यर्थः । हि यतः। अनुगामीति । रजोरूपेत्यर्थः । बिम्बेति । .