पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। से हेतुः, स च फलबलाच्चमत्कारिण्येवार्थै व्यक्तिमुल्लासयति नाचमत्कारि- णीति सिद्धं व्यञ्जनोल्लासस्य क्वाचित्कत्वमिति चेत् ।न। हन्तैवं स नियन्त्रि- तशक्तेरेवोल्लासकोऽस्त्विति कृतं नानार्थस्थले व्यक्तिकल्पनया । किं च 'उ- ल्लास्य कालकरवालमहाम्बुवाहम्' इत्यादि नानार्थव्यञ्जकस्थलेंऽगृहीतद्विती- यार्थशक्तिकस्य गृहीतविस्मृतद्वितीयार्थशक्तिकस्य वा पुंसः सर्वथैव व्यञ्जनया द्वितीयार्थबोधानुदयात्तत्र तया तदापत्तिस्तव दुर्वारा । न च येन शब्देन योऽथी व्यज्यते तस्य शब्दस्य तदर्थगतशक्तिज्ञानं तदर्थव्यक्तेरुल्लासे हे- तुरिति वाच्यम् । 'निःशेषच्युत-' इत्यादौ रमणव्यक्त्यनापत्तेः । न- ह्यधमपदस्य कस्यचिद्रमणे शक्तिग्रहोऽस्ति । सति वा तस्मिंस्तेनैवोप- पत्तौ व्यक्तिकल्पनवैयर्थ्यापत्तेश्च । न च नानार्थव्यञ्जनस्थल एवैवंजाती- यकः कार्यकारणभावः कल्प्यते । तत्र च शक्तर्नियन्त्रितत्वेन तद्ग्रहस्या- प्रयोजकतया व्यक्तिकल्पनौचित्यादिति वाच्यम् । नवीनकार्यकरणाभाव- कल्पने गौरवप्रसङ्गात् । नियन्त्रणस्य पूर्वमेव दूषितत्वेन तद्धेतोरेव इति न्यायावताराच्च । अथास्त्वप्राकरणिकोऽप्यर्थः शक्तिवेद्य एवान्वयधीगोचरः, परंतु यत्र न बाधितः स्यात् । यत्र तु बाधितस्तत्र 'जैमिनीयमलं धत्ते रसनायामयं द्विजः' इत्यादौ जुगुप्सितोऽर्थः, वह्निना सिञ्चतीत्यादौ वह्नि- करणकसेक इवाबोधोपहत एव स्यात् । बाधनिश्चयस्य तद्वत्ताज्ञानं प्रति प्रतिबन्धकतायाः सर्वजनसिद्धत्वात् । व्यक्तेस्तु बाधितार्थबोधकत्वं धर्मि- ग्राहकमानसिद्धमिति व्यक्तिवादिनामदोष इति । मैवम् । 'गामवतीर्णा सत्यं क्तिविशेष इत्यर्थः । सः शक्तिविशेषः । नियन्त्रितेत्यस्य प्रकरणादिनेत्यादिः । अभ्यु- पेत्याह-किं चेति । विनिगमनाविरहादाह-गृहीतेति । सर्वथैव सर्वप्रकारेणैव । सिद्धान्ते इत्यादिः । तयेति । व्यञ्जनयेत्यर्थः । तदापत्तिर्द्वितीयार्थबोधापत्तिः । एतद्दो- षोद्धाराय शङ्कते - न चेति । रमणेति । नायककर्तृकरतीत्यर्थः । सति वेति । नायके तच्छक्तिग्रहसत्त्वादिति भावः । तेनैवेति । शक्तिग्रहेणैव बोधोपपत्तावित्यर्थः । एवंजातीयको येन शब्देनेत्याघुक्तः । तथा च निःशेषेत्यादौ न दोष इति भावः । नन्व- न्यथानुपपत्त्या गौरवं सुसहमत आह-नियन्त्रणेति । तद्धेतोरिति । व्यक्त्युल्लास- हेतोस्तदर्थगतशक्तिज्ञानस्यैव तदर्थबोधजनकत्वमस्तु, किं व्यक्त्युल्लासजनकत्वेनेत्यर्थः । अपिः प्राकरणिकार्थसमुच्चायकः । तत्रेत्यस्येत्पादावित्यनेनान्वयः । जैमीति । जैमि- निप्रोक्तं पूर्वमीमांसाशास्त्रं अलं परिपूर्णे धत्ते इत्येकोऽर्थः । जैमिनिप्रोक्तशानाध्येतॄणां मलं विष्ठां धत्ते इत्यपरोऽर्थों निन्दितः । गामिति, सौधानामिति, च भिन्नपद्यार्थे ।