लीपस्येप्सितं मनोरथम् ॥ भावे क्तः॥ पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् ॥ यद्वा कौमुदी नाम दीपोत्सवतिथिः। तदुक्तं भविष्योत्तरे--"कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति ॥ तस्या मुखं प्रारम्भम् ॥ “सखीजनोद्वीक्षणकौमुदीमहम्" इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य संततेरविच्छेदस्य निदानं मूलकारणम् ॥ “निदानं त्वादिकारणम्" इत्यमरः ॥ एवंविधं दौर्हृदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ ॥ स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी॥ यथाह वाग्भटः "मातृजन्यस्य हृदयं मातुश्च हृदयं च तत् । संबद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्" इति ॥ तत्संबन्धित्वाद्गर्भो दौर्हृदमित्युच्यते । सा च तद्योगाद्दौर्हृदिनीति ॥ तदुक्तं संग्रहे--"द्विहृदयां नारीं दौर्हृदिनीमाचक्षते" इति ॥ अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद्रूपकालंकारः ॥ अस्मिन्सर्गे वंशस्थं वृत्तम्--"जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् ।।
संप्रति क्षामताख्यं गर्भलक्षणं वर्णयति-
श[१]रीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥२॥
शरीरेति ॥ शरीरस्य सादात्कार्श्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पेणेव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा । विचेया मृग्यास्तारका यस्यां सा तथोक्ता । विरलनक्षत्रेत्यर्थः । तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा । प्रभातादीषदूनेत्यर्थः ॥ " तसिलादिष्वा कृत्वसुचः" इति प्रभातशब्दस्य पुंवद्भावः ॥ शर्वरी रात्रिरिव । अलक्ष्यत ॥ शरीरसादादिगर्भलक्षणमाह वाह्वटः-"क्षामता गरिमा कुक्षेर्मूर्च्छा छर्दिररोचकम् । जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्" इति ॥
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥३॥
तदिति ॥ क्षितीश्वरो र[२]हसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं नाययौ ॥ कः कमिव । शुचिव्यपाये ग्रीष्मावसाने ॥ "शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि" इति विश्वः ॥ पयोमुचां मेघानां पृषतैर्बिन्दुभिः ॥ "पृषन्ति बिन्दुपृषताः
इत्यमरः ॥ सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव ॥ अत्र करिव-