भिरामध्वनिना कर्णाह्लादकरस्वनेनानुद्धातः पाषाणादिप्रतिघातरहितः । अत एव सुखयतीति सुखः । तेन रथेन । स्वेन पूर्णेन सफलेन मनोरथेनेव । मार्गमध्वानं ययौ ॥ मनोरथपक्षे ध्वनिः श्रुतिः । अनुद्धातः प्रतिबन्धनिवृत्तिः ।
तमाहितौत्सुक्यमदर्शनेन प्रजाः प्र[१]जार्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ॥७३॥
तमिति ॥ अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्यं जनितदर्शनोत्कण्ठम् । प्रजार्थेन संतानार्थेन व्रतेन नियमेन कर्शितं कृशीकृतमङ्गं यस्य तम् । नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः । ओषधीनां नाथं सोममिव । तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः ॥ चन्द्रपक्षे । अदर्शनं कलाक्षयनिमित्तम् । प्रजार्थं लोकहितार्थम् । व्रतं देवताभ्यः कलादाननियमः ॥ "तं च सोमं पपुर्देवाः पर्यायेणानुपूर्वशः” इति व्यासः ॥ उदय आविर्भावः । अन्यत्समानम् ॥
पुरंदरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः।
भुजे भुजंगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ ७४ ॥
पुरंदरेति ॥ पुरः पुरीरसुराणां दारयतीति पुरंदरः शक्रः ॥ “पूःसर्वयोर्दारिसहोः" इति खच्प्रत्ययः । “वाचंयमपुरंदरौ च" इति मुमागमो निपातितः ॥ तस्य श्रीरिव श्रीर्यस्य स नृपः पौरैरभिनन्धमानः। उत्पताकमुच्छ्रितध्वजम् ॥ “पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्" इत्यमरः ॥ पुरं प्रविश्य भुजंगेन्द्रेण समानसारे तुल्यबले ॥ “सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु" इत्य- मरः। भुजे भूयो भूमेर्धुरमाससञ्ज स्थापितवान् ॥
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः॥ ७५ ॥
अथेति ॥ अथ द्यौः सुरवर्त्म ॥ "द्यौः स्वर्गसुरवर्त्मनोः" इति विश्वः ॥ अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम् ॥ "आतश्चोपसर्गे" इति कप्रत्ययः॥ ज्योतिरिव । चन्द्रमिवेत्यर्थः ॥ ऋक्षेशः स्यादत्रिनेत्रप्रसूतः" इति हलायुधः॥ चन्द्रस्यात्रिनेत्रोद्भूतत्वमुक्तं हरिवंशे--"नेत्राभ्यां वारि सुस्राव दशधा द्योतयद्दिशः। तद्गर्भविधिना
हृष्टा दिशो देव्यो दधुस्तदा। समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः
- ↑ प्रजार्थम्