भवानिति ॥ परवान्स्वामिपरतन्त्रो भवानपि ॥ " परतन्त्रः पराधीनः परवान्नाथवानपि" इत्यमरः ॥ इदं वक्ष्यमाणमवैति । भवतानुभूयत एवेत्यर्थः ।। “शेषे प्रथमः" इति प्रथमपुरुषः ॥ किमित्यत आह-हि यस्माद्धेतोः॥ "हि हेताववधारणे" इत्यमरः ॥ तव देवदारौ विषये महान्यत्नः । महता यत्नेन रक्ष्यत इत्यर्थः ॥ इदंशब्दोक्तमर्थं दर्शयति-स्थातुमिति ॥ रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन । नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोऽग्रे स्थातुं शक्यं न हि ॥
सर्वथा चैतदप्रतिहार्यमित्याह-
किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥५७॥
किमिति ॥ किमपि किं वाहं तवाहिंस्योऽवध्यो मतश्चेत्तर्हि मे यश एव शरीरं तस्मिन्दयालुः कारुणिको भव ॥ "स्याद्दयालुः कारुणिकः" इत्यमरः ॥ ननु मुख्यमुपेक्ष्यामुख्यशरीरे कोऽभिनिवेशः। अत आह-एकान्तेति॥मद्विधानां मादृशानां विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविकारेषु पिण्डेषु शरीरेष्वनास्था खल्वनपेक्षैव ॥ आस्थात्वालम्बनास्थानयत्नापेक्षासु कथ्यते” इति विश्वः ॥
सौहार्दादहमनुसरणीयोऽस्मीत्याह-
संबन्धमाभाषणपूर्वमाहुर्वृत्तः[१] स नौ संगतयोर्वनान्ते ।
तद्भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम्।।५८॥
संबन्धमिति ॥ संबन्धं सख्यम् । आभाषणमालापः पूर्व कारणं यस्य तमाहुः ॥ "स्यादाभाषणमालापः" इत्यमरः ॥ स तादृक्सम्बन्धो वनान्ते संगतयोर्नावावयोर्वृत्तो जातः । तत्ततो हेतोर्हे भूतनाथानुग शिवानुचर । एतेन तस्प महत्त्वं सूचयति । अत एव संबन्धिनो मित्रस्य मे प्रणयं याच्ञाम् ॥ “प्रणयास्त्वमी । विश्रम्भयाच्ञाप्रेमाणः" इत्यमरः ॥ विहन्तुं नार्हसि ॥
तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
सं न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ।। ५९ ॥
तथेति ॥ तथेति गामुक्तवते हरये सिंहाय । “कपी सिंहे 'सुवर्णे च वर्णे विष्णौ हरिं विदुः" इति शाश्वतः ॥ सद्यस्तत्क्षणे प्रतिष्टम्भात्मतिबन्धाद्विमुक्तो बाहुर्यस्य स दिलीपः । न्यस्तशस्त्रस्त्यक्तायुधः सन् । स्वदेहम् । आमिषस्य मांसस्य ॥
२ सन्.
- ↑ जातः