यान्तो निपातः ॥ आत्मदेहं रक्ष ॥ ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात् । नेत्याह-महीतलेति ॥ ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसंबन्धमात्रेण भिन्नमैन्द्रमिन्द्रसंबन्धि पदं स्थानमाहुः । स्वर्गान्न भिद्यत इत्यर्थः ।।
एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव ॥५१॥
एतावदिति ॥ मृगेन्द्र एतावदुक्त्वा विरते सति गुहागतेनास्य सिंहस्य प्रतिस्वनेन शिलोच्चयः शैलोऽपि प्रीत्या तमेवार्थं क्षितिपालमुच्चैरभाषतेव । इत्युत्प्रेक्षा ॥ भाषिरयं ब्रुविसमानार्थत्वाद्विकर्मकः । ब्रुविस्तु द्विकर्मकेषु पठितः । तदुक्तम्-"दुहियाचिरुधिपछिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना" इति ॥
निशम्येति ॥ देवानुचरस्येश्वरकिंकरस्य सिंहस्य वाचं निशम्य मनुष्यदेवो राजा पुनरप्युवाच । किंभूतः सन् । तेन सिंहेन यदध्यासितं व्याक्रमणम् ॥ नपुंसके भावे क्तः । तेन कातरे अक्षिणी यस्यास्तया ॥ “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् " इति षच् । “षिद्गौरादिभ्यश्च" इति ङीष् ॥ किं वा वक्ष्यतीति भीत्यैवं स्थितयेत्यर्थः । धेन्वा निरीक्ष्यमाणः । अत एव सुतरां दयालुः सन् ॥ सुतरामित्यत्र द्विवचनविभज्य-" इत्यादिना सुशब्दात्तरप् । किमेत्तिङव्यय-" इत्यादिनाम्प्रत्ययः । “तद्धितश्चासर्वविभक्तिः" इत्यव्ययसंज्ञा ॥
किमुवाचेत्याह-
क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपकोशमलीमसैर्वा ॥५३॥
क्षतादिति ॥ "क्षणु हिंसायाम्" इति धातोः संपदादित्वात्किप् । गमादीनाम्" इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम् । क्षतो नाशात्त्रायत इति क्षत्त्रः ॥ सुपीति योगविभागात्कः । तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति -क्षतादित्यादिना॥ उदग्र उन्नतः क्षत्रस्य क्षत्रवर्णस्य शब्दो वाचकः। क्षत्रशब्द इत्यर्थः । क्षतात्रायत इति व्युत्पत्या भुवनेषु रूढः किल प्रसिद्धः खलु ।
नाश्वकर्णादिवत्केवलरूढः। किंतु पङ्कजादिवद्योगरूढ इत्यर्थः। ततः किमित्यत आ-