तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिं[१]होरुसत्त्वं निजगाद सिंहः॥३३॥
तमिति॥ निगृहीता पीडिता धेनुर्येन ससिंहः । आर्याणां सतां गृह्यं पक्ष्यम् ॥ "पदास्वैरिबाह्यापक्ष्येषु च" इति क्यप् ॥ मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्तकम् । सिंह इवोरुसत्त्वो महाबलस्तम् । आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम् ॥ कर्तरि क्तः ॥ तं दिलीपं मनुष्यवाचा ॥ करणेन ॥ पुनर्विस्माययन्विस्मयमाश्चर्यं प्रापयन्निजगाद ॥"स्मिङ् ईषद्धसने" इति धातोणिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम् ॥ "विस्मापयन्" इति पाठे पुगागममात्रं वक्तव्यम् । तच्च “नित्यं स्मयतेः" इति हेतुभयविवक्षायामेवेति “ भीस्म्योर्हेतुभये" इत्यात्मनेपदे विस्मापयमान इति स्यात् । तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम् । करणविवक्षायां न कश्चिद्दोषः ॥
अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य ॥३४॥
अलमिति ॥ हे महीपाल, तव श्रमेणालम् । साध्याभावाच्छ्रमो न कर्तव्य इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वानृतीया । उक्तं च न्यासोद्योते-"न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तर्हि गम्यमानापि" इति ॥ " अलं भूषणपर्याप्तिशक्तिवारणवाचकम् " इत्यमरः ॥ इतोऽस्मिन्मयि ॥सार्वविभक्तिकस्तसिः॥ प्रयुक्तमप्यस्त्रं वृथा स्यात् ।। तथाहि । पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोच्चये पर्वते न मूर्च्छति न प्रसरति ॥
कैलासेति ॥ कैलास इव गौरः शुभ्रस्तम् ॥" चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः" इति शाश्वतः ॥वृषं वृषभमारुरुक्षोरारोढुमिच्छोः ।स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः । अष्टौ मूर्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तं निकुम्भमित्रं कुम्भोदरं नाम किंकरं मामवेहि विद्धि ॥ “पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्ट मूर्तयः" इति यादवः॥