स्य । त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः॥
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तवि[१]रूढशष्पं गौरीगरोर्गह्वरमाविवेश ॥२६॥
अन्येद्युरिति ॥ अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने ॥ “सद्यः परुत्परारि" इत्यादिना निपातनादव्ययम् ॥ अद्यात्राह्नाय पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः" इत्यमरः ।। मुनिहोमधेनुः । आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम् । “भावोऽभिप्राय आशयः" इति यादवः ॥ जिज्ञासमाना ज्ञातुमिच्छन्ती ॥ "ज्ञाश्रुस्मृदृशां सनः इत्यात्मनेपदे शानच् ॥ प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः । गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत् ॥ " शष्पं बालतृणं घासः" इत्यमरः॥ गौरीगुरोः पार्वतीपितुर्गहरं गुहामाविवेश ॥
सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥२७॥
सेति ॥ सा धेनुहिंस्रैर्व्याघ्रादिभिर्मनसापि दुष्प्रधर्षा दुर्धर्षेति हेतोरद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात् ॥ प्रसह्य तु हठार्थकम्" इत्यमरः ॥ चकर्ष ॥ किलेत्यलीके ।।
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्विवादाय नगेन्द्रस[२]क्तां निवर्तयामास नृपस्य दृष्टिम् ॥२८॥
तदीयमिति ॥ गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम् । तस्या इदं तदीयम् । आक्रन्दितमार्तघोषणम् । आर्तेष्वापन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम् । रश्मिषु प्रग्रहेषु ॥ “किरणप्रग्रहौ रश्मी इत्यमरः ॥ आदायेव गृहीत्वेव । निवर्तयामास ॥
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥२९॥
स इति ॥ धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम् ॥ "कमुश्च" इति क्वसुप्रत्ययः ॥ केसरिणं सिंहम् । सानुमतोऽद्रेः । धातोर्गैरिकस्य विकारो धातुमयी । तस्यामधित्यकायामूर्ध्वभूमौ ॥ “उपत्यकाद्रेरासन्ना भूमिरू