पि । दवाग्निर्वनाग्निः ॥ “दवदावौ वनानले" इति हेमः ॥ शशाम । फलानां पुष्पाणां च वृद्धिः। विशेष्यत इति विशेषा। अतिशयितासीत् ।। कर्मार्थे घञ्प्रययः॥ सत्त्वेषु जन्तुषु मध्ये ॥ " यतश्च निर्धारणम्" इति सप्तमी ॥ अधिकः प्रबलो व्याघ्रादिरूनं दुर्बलं हरिणादिकं न बबाधे॥
संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ १५॥
संचारपूतानीति ॥ पल्लवस्य रागो वर्णः पल्लवरागः ॥ “रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः॥ स इव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः ॥ “पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः। मुनेर्धेनुश्च । दिगन्तराणि दिशामवकाशान् ॥ अन्तरमवकाशावधिपरिधानान्तर्विभेदतादर्थ्ये" इत्यमरः ॥ संचारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय । धेनुपक्ष आलयाय च । गन्तुं प्रचक्रमे ॥
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना॥१६॥
तामिति ॥ मध्यमलोकपालो भूपालः । देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः प्रयोजनं यस्यास्तां धेनुमन्वगनुपदं ययौ ॥“अन्वगन्वक्षमनुगेऽनुपदं क्लीवमव्ययम् " इत्यमरः ॥ सतां मतेन सद्भिर्मान्येन ॥ “गतिबुद्धि-" इत्यादिना वर्तमाने क्तः । क्तस्य च वर्तमाने" इति षष्ठी ॥ तेन राज्ञोपपन्ना युक्ता सा धेनुः । सतां मतेन विधिनानुष्ठानेनोपपन्ना युक्ता साक्षात्प्रत्यक्षा श्रद्धास्तिक्यबुदिरिव । बभौ च ॥
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्॥१७॥
स इति ॥ स राजा । पल्वलेभ्योऽल्पजलाशयेभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि । बर्हाण्येषां सन्तीति बर्हिणा मयूराः ॥ “मयूरो बर्हिणो बर्ही" इत्यमरः ।। फलवर्हाभ्यामिनच्यत्ययो वक्तव्यः ॥ आवासवृक्षाणामुन्मुखा बर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्नाश्यामानि । श्यामानि भवन्तीति श्यामायमानानि ॥ "लोहितादिडाज्भ्यः क्यष्" इति क्यष्पत्ययः । “वा क्यषः" इत्यात्मनेपदे शानच् ॥ मृगैरध्यासिता अधिष्ठिताः
शाद्वला येषु तानि ॥ शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः ॥ “शाद्वलः शादहरिते" इत्यमरः ॥ "शादः कर्दमशष्पयोः" इति विश्वः॥ “नडशादाड्ड्वलच्" इति ड्वलच्प्रत्ययः ॥ वनानि पश्यन्ययौ ।