स इति ॥ पुरुहूतश्री: सोऽतिथिः कल्पद्रुमाणां निभाः समाना ध्वजा यस्यास्तां पुरमयोध्यामैरावतस्य ओज इवौजो बलं यस्य तेन नागेन कुञ्जरेण क्रममाणश्चरन् । “अनुपसर्गाद्वा" इति वैकल्पिकमात्मनेपदम् ॥ द्यां चकार । स्वर्गलोकदृशीं चकारेत्यर्थः॥ “द्यौः स्वर्गसुरवर्त्मनोः" इति विश्वः ॥
तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा ।
पूर्वराजवि[१]योगौष्म्यं कृत्स्नस्य जगतो हृ<ref>हतम्; हतः.</refतम् ॥ ३३॥
तस्येति ॥ तस्यैकस्य मूर्ध्नि छत्रमुच्छ्रितमुन्नमितम् । अमलत्विषा तेन छत्रेण कृत्स्नस्य जगतः पूर्वराजस्य कुशस्य वियोगेन यदौष्म्यं संतापस्तद्धृतं नाशितम् ॥ अत्र छत्रोन्नमनसंतापहरणलक्षणयोः कारणकार्ययोर्भिन्नदेशत्वादसंगतिरलंकारः । तदुक्तम्-"कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः" इति ॥
धूमादग्नेः शि<ref>शिखा. </refखाः पश्चादुदयादंशवो रवेः।
सोऽतीत्य ते<ref>तेजसः.</refजेसां वृत्तिं सममेवोत्थितो गुणैः॥ ३४॥
धूमादिति ॥ अग्नेर्धूमात्पश्चात् । अनन्तरमित्यर्थः। शिखा ज्वालाः । रवेरुदयात्पश्चादनन्तरमंशवः । उत्तिष्ठन्त इति शेषः। सोऽतिथिस्तेजसामग्न्यादीनां वृत्तिं स्वभावमतीत्य गुणैः समं सहैवोत्थित उदितः । अपूर्वमिदमित्यर्थः ॥
तं प्रीतिवि<ref>विशदम्,</refशदैर्नेत्रैरन्वयुः पौरयोषितः।
शरत्प्रसन्नज्योतिर्भिर्विभावर्य इव ध्रु<ref>उडुपम्.</refवम् ॥ ३५॥
तमिति ॥ पौरयोषितः प्रीत्या विशदैः प्रसन्नैर्नेत्रैः करणैस्तमतिथिमन्वयुरनुजग्मुः । सदृष्टिप्रसारमद्राक्षुरित्यर्थः ॥ कथमिव । शरदि प्रसन्नज्योतिभिर्नक्षत्रैर्विभावर्यो रात्रयो ध्रुवमिव ॥ ध्रुवपाशबद्धत्वात्ताराचक्रस्येत्यर्थः ॥
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः।
अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः ॥ ३६॥
अयोध्येति ॥ प्रशस्तेष्वायतनेष्वालयेष्वर्चिता अयोध्यादेवताश्चानुध्येयमनुग्राह्यमेनमतिथिं प्रतिमागतैरर्चासंक्रान्तैः सांनिध्यैः संनिधानैरनुदध्युरनुजगृहुः ॥ "अनुध्यानमनुग्रहः” इत्युत्पलमालायाम् ॥ तदनुग्रहबुद्ध्या संनिदधुरित्यर्थः ।।
यावन्नाश्यायते वेदिरभिषेकज<ref>बलाप्लुता</refलाप्लुता।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥ ३७॥
- ↑ वियोगोष्मा; वियोगोष्णम्.