हतः सन् । सिकतात्वात्सिकताभावादपि परां परमाणुतां प्रपेदे ॥ यतोऽणुर्नास्ति स परमाणुरित्याहुः॥
त[१]मुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः।
एकताल इवोत्पातपवनप्रेरितो गिरिः॥ २३ ॥
तमिति ॥ निशाचरो राक्षसो दक्षिणं दोः॥"ककुद्दोषणी" इति भगवतो भाष्यकारस्य प्रयोगाद्दोषशब्दस्य नपुंसकत्वं द्रष्टव्यम् । “भुजबाहू प्रवेष्टो दोः" इति पुंलिङ्गसाहचर्यात्पुंस्त्वं च । तथा च प्रयोगः- “दोपं तस्य तथाविधस्य भजते" इति ॥ सव्येतरं बाहुमुद्यम्य । एकस्तालस्तदाख्यवृक्षो यस्मिन्स एकतालः । उत्पातपवनेन प्रेरितो गिरिरिव । तं शत्रुघ्नमुपाद्रवदभिद्रुतः ॥
कार्ष्णेन पत्रिणा श[२]त्रुः स भिन्नहृदयः पतन् ।
आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥२४॥
कार्ष्णेनेति ॥ सः शत्रुर्लवणः । कार्ष्णेन वैष्णवेन पत्रिणा बाणेन ॥ उक्तं च रामायणे-“एवमेष प्रजनितो विष्णोस्तेजोमयः शरः" इति ॥ “विष्णुर्नारायणः कृष्णः" इत्यमरः॥ भिन्नहृदयः पतन्भुवः कम्पमानिनायानीतवान् । देहभारादित्यर्थः| आश्रमवासिनां कम्पं जहार । तन्नाशादकुतोभया बभूवुरित्यर्थः॥
वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्वि[३]षः।
तत्प्रतिद्वन्द्विनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ॥२५॥
वयसामिति ॥ हतस्य । विद्वेष्टीति विद्विद्। तस्य विद्विषो राक्षसस्योपरि वयसां पक्षिणां पङ्क्तयः पेतुः। तत्प्रतिद्वन्द्विनः शत्रुघ्नस्य मूर्ध्नि तु दिव्याः कुसुमवृष्टयः पेतुः।।
स इति ॥स वीरः शत्रुघ्नो लवणं हत्वा तदात्मानं महौजसो महाबलस्येन्द्रजिद्वधेन शोभिनो भ्रातुर्लक्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने ॥ “ सोदराद्यः" इति यप्रत्ययः॥
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥ २७॥
तस्येति ॥ चरितार्थैः कृतार्थैः कृतकार्यैस्तपस्विभिः संस्तूयमानस्य तस्य शत्रुघ्नस्य