सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् ।
षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥ २२॥
सर्वास्विति ॥ स रामो वत्सलत्वात्स्निग्धत्वात् । न तु लोकप्रतीत्यर्थम् ॥ "स्निग्धस्तु वत्सलः" इत्यमरः ॥ सर्वासु मातृष्वपि निर्विशेषप्रतिपत्तिस्तुल्यसत्कार आसीत् ॥ कथमिव । चमूनां नेता षण्मुखः षड्भिराननैरापीताः पयोधराः स्तना यासां तासु कृत्तिकास्विव ॥
तेनार्थवाँल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।
तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री ॥२३॥
तेनेति ॥ लोको लोभपराङ्मुखेन वदान्येन तेन रामेणार्थवान्धनिक आस बभूव ॥ तिङन्तप्रतिरूपकमव्ययमेतत् ॥ विघ्नेभ्यो भयं घ्नता नुदता तेन क्रियावाननुष्ठानवानास । विनेत्रा नियामकेन तेन पितृमानास । पितृवन्नियच्छतीत्यर्थः । शोकमपनुदतीति शोकापनुदो दुःखस्य हर्ता तेन ॥ “तुन्दशोकयोः परिमृजापनुदोः" इति कप्रत्ययः ॥ तेन पुत्री पुत्रवानास । पुत्रवदानन्दयतीत्यर्थः ॥
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा।
उ[१]पस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥२४॥
स इति ॥ स रामः कालेऽवसरे पौराणां कार्याणि प्रयोजनानि समीक्ष्य विदेहाधिपतेर्दुहित्रा सीतया । उपभोगोत्सुकयातएव तदीयं सीतासंबन्धि चारु वपुः कृत्वा स्थितया लक्ष्म्येव । उपस्थितः संगतः सन् । रेमे ॥ " उपस्थानं तु संगतिः" इति यादवः ॥
तयोरिति ॥ चित्रवत्सु वनवासवृत्तान्तालेख्यवत्सु सद्मसु यथाप्रार्थितं यथेष्टमिन्द्रियार्थानिन्द्रियविषयाञ्शब्दादीनासेदुषोः प्राप्तवतोस्तयोः सीतारामयोर्दण्डकेषु दण्डकारण्येषु प्राप्तानि दुःखान्यपि विरहविलापान्वेषणादीनि संचिन्त्यमानानि स्मर्यमाणानि सुखान्यभूवन् ॥ स्मारकं तु चित्रदर्शनमिति द्रष्टव्यम् ॥
अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।
आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेने[४] ॥ २६ ॥
अथेति ॥ अथ सीताधिकस्निग्धविलोचनेनात्यन्तमसृणलोचनेन शरवत्तृणवि-