बालव्यजने चामरे यस्य स रथस्थो भरतेन धृतातपत्र एवं चतुर्व्यूहो रामः प्रवृद्धः साक्षादुपायानां सामादीनां संघातः समष्टिरिव । विवेशेति पूर्वेण संबन्धः ॥
प्रासादेति ॥ वायुवशेन भिन्ना प्रासादे यः कालागुरुधूमस्तस्य राजी रेखा। वनान्निवृत्तेन रघूत्तमेन रामेण स्वयं मुक्ता तस्याः पुरः पुर्या वेणिरिव । आबभासे | पुरोऽपि पतिव्रतासमाधिरुक्तः ॥ न प्रोहिते तु संस्कुर्यान्न वेणी च प्रमोचयेत् ” इति हारीतः॥
श्वश्रूजनानुष्ठितचारुवेषां कर्णिरथस्थां रघुवीरपत्नीम् ।
प्रा[५]सादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥१३॥
श्वश्रूजनेति ॥ श्वश्रूजनैरनुष्ठितचारुवेषां कृतसौम्यनेपथ्याम् ॥ “ आकल्पवेषौ नेपथ्यम्" इत्यमरः ॥ कर्णीरथः स्त्रीयोग्योऽल्परथः ॥ “कर्णीरथः प्रवहणं डयनं रथगर्भके” इति यादवः ॥ तत्रस्थां रघुवीरपत्नी सीतां साकेतनार्यः प्रासादवातायनेषु दृश्यबन्दैर्लक्ष्यपुटैर्ज्जलिभिः प्रणेमुः ॥
स्फुरत्प्रभामण्डलमानुसूयं सा विभ्रती शाश्वतमङ्गरागम् ।
रराज शुद्धेति पुनः स्वपुर्यै संदर्शिता वह्निगतेव भर्त्रा ॥१४॥
स्फुरदिति ॥ स्फुरत्यभामण्डलमानुमुयमनुसूयया दत्तं शाश्वतं सदातनमङ्गरागं बिभ्रती सा सीता भत्रा स्वपुर्यं शुद्धेति संदर्शिता पुनर्वह्निगतेव रराज ॥
वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भयः ।
बाष्पायमाणो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश ॥१५॥
वेश्मानीति ॥ सुहृदो भावः सौहार्दं सौजन्यम् ॥ “हृद्भगसिन्ध्वन्ते पूर्वपदस्य-" इत्युभयवृद्धिः॥ सौहार्दनिधी रामः सुहृद्भ्यः सुग्रीवादिभ्यः परिबर्हवन्त्युपकरणवन्ति वेश्मानि विश्राण्य दत्त्वा । आलेख्यशेषस्य चित्रमात्रशेषस्य पितुर्बलिमत्पूजायुक्तं निकेतं गृहं बाष्पायमाणो बाष्पमुद्रमन्विवेश ॥ “बाष्पोष्मभ्यामुद्वमने" इति क्यङ्प्रत्ययः ।।
कृताञ्जलिस्तत्र यदम्ब सत्यानाभ्रश्यत स्वर्गफलाद्गुरुर्नः।
तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥१६॥
कृताञ्जलिरिति ॥ तत्र निकेतने कृताञ्जलिः सन्रामः। हे अम्ब, नो गुरुः पिता
स्वर्गः फलं यस्य तस्मात्सत्यन्नाभ्रश्यत न भ्रष्टवानिति यदभ्रंशनं तच्चिन्त्यमानं