सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २७० )
रघुवंशे

रुक्तिः ॥ अवस्थामक्षोभाद्यवस्थाम् । विष्णुपक्षे सत्त्वाद्यवस्थाम् । प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाच्चेदृक्तयेयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ॥

  नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा।
  अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ६ ॥

 नाभीति ॥ युगान्ते कल्पान्त उचिता परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य स पुरुषो विष्णुर्लोकान्संहृत्य । नाभ्यां प्ररूढं यदम्बुरुहं पद्मं तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्टा पितामहेन संस्तूयमानः सन् । अमुमधिशेते । अमुष्मिञ्छेत इत्यर्थः । कल्पान्तेऽप्यस्तीति भावः ॥

  []क्षच्छिदा गो[]त्रभिदा[]त्तगन्धाः शरण्यमे[]नं शतशो महीध्राः।
  नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ ७ ॥

 पक्षेति ॥ पक्षच्छिदा गोत्रभिदेन्द्रेण ।। उभयत्र "सत्सूद्विष" इत्यादिना क्विप् ॥ आत्तगन्धा हृतगर्वाः । अभिभूता इत्यर्थः ॥ “गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इति विश्वः ॥ “आत्तगन्धोऽभिभूतः स्यात्" इत्यमरः ॥ महीं धारयन्तीति महीध्राः पर्वताः ॥ मूलविभुजादित्वात्कप्रत्ययः ॥ शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम् । परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव । आश्रयन्ते ॥ "अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः इति कामन्दकः ॥ आर्तबन्धुरिति भावः ॥

  रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः।
  []स्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्राभरणं बभूव ॥ ८ ॥

 रसातलादिति॥आदिभवेन पुंसादिवराहेण रसातलात्प्रयुक्तोद्वहनक्रियायाः कृतोद्धरणक्रियायाः । विवाहक्रिया च व्यज्यते । भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव ॥ तदुक्त‌ं‌ ‌-- "उद्धृतासि वराहेण कृष्णेन शतबाहुना" इति ॥

  मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः ।
  अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥ ९ ॥

 मुखेति ॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः । इममेवार्थं प्रतिपादयति--तरंग एवाधरस्तस्य


  1. पक्षच्छिदः.
  2. गोत्रभिदः; गोत्रभित्तः.
  3. भयार्ताः-
  4. एतम्.
  5. यस्य.