अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥७७॥
अवजानासीति ॥ यस्मात्कारणान्मामवजानासि तिरस्करोषि । अतः कारणान्मत्प्रसूतिं मम संततिमनाराध्यासेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप ॥ शप आक्रोशे॥
कथं तदस्माभिर्न श्रुतमित्याह-
स शापो न त्वया राजन्न च सारथिना श्रुतः।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ ७८॥
स इति ॥ हे राजन्, स शापस्त्वया न श्रुतः । सारथिना च न श्रुतः ॥ अश्रवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ॥
अस्तु प्रस्तुते किमायातमित्यत्राह-
ईप्सितं[१] तदवज्ञानाद्विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः॥७९॥
ईप्सितमिति ॥ तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम् ॥ आप्नोतेः सन्नन्तात्क्तः । ईकारश्च ॥ सार्गलं सप्रतिबन्धं विद्धि जानीहि ॥ तथाहि । पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति॥
तर्हि गत्वा तामाराधयामि । सा वा कथंचिदागमिष्यतीत्याशा न कर्तव्येत्याह-
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः।
भुजंगपिहितद्वारं पातालमधितिष्ठति ॥ ८०॥
हविष इति ॥ सा च सुरभिरिदानीं दीर्घं सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजंगपिहितद्वारं भुजंगावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्ठति पाताले तिष्ठतीत्यर्थः ॥ “ अधिशीङ्स्थासां कर्म” इति कर्मत्वम् ॥
तर्हि का गतिरित्यत आह-