मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैब्यम[१]स्त्राण्यापुः सुरद्विषाम् ॥ ८६ ॥
मातलिरिति ॥ मातलिरिन्द्रसारथिर्माहेन्द्रम् । तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म ॥ "पुंसि संज्ञायां घः प्रायेण” इति घः॥ तं तस्य रामस्यामुमोचासञ्जयामास । यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैब्यं नपुंसकत्वं निरर्थकत्वं तदापुः॥
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्यु[२]द्धं चरितार्थमिवाभवत् ॥ ८७ ॥
अन्योन्यति ॥ चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धं योधनं चरितार्थं सफलमभवदिव ॥ प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ॥
भुजेति ॥ यथा भूतः पूर्वं यथापूर्वः॥ सुप्सुपेति समासः॥ यथापूर्वो न भवतीत्ययथापूर्वः । निहतबन्धुत्वाद्रक्षःपरिचारशून्य इत्यर्थः । अतएवैकोऽपि सन्धनदानुजो रावणः । भुजाश्च मूर्धानश्चोरवः पादाश्च भुजमूर्धोरु ॥ प्राण्यङ्गत्वाद्वन्दैकवद्भावः॥ तस्य बाहुल्याद्वहुत्वाद्धतोः॥ तद्बहुत्वे यादवः- “दशास्यो विंशतिभुजश्चतुष्पान्मातृमन्दिरे" इति ॥ मातृवंशे मातृसंबन्धिनि वर्गे स्थित इव ददृशे दृष्टो हि ॥ “वंशो वेणौ कुले वर्गे" इति विश्वः॥ अत्र रावणमातू रक्षोजातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते । अतश्चैकोऽप्यनेकरक्षःपरिवृत इवालक्ष्यतेत्यर्थः ॥
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमरा[६]तिं बह्वमन्यत ॥ ८९॥
जेतारमिति ॥ लोकपालानामिन्द्रादीनां जेतारम् ॥ “कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी ॥ स्वमुखैः स्वशिरोभिरर्चितेश्वरं तुलितकैलासमुत्क्षिप्तरुद्राद्रिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्राहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाच्च बह्वमन्यत ॥ साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहुमानमकरोदित्यर्थः ॥ बह्विति क्रियाविशेषणम् ॥
तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि ।
निचखाना[७]धिकक्रोधः शरं सव्येतरे भुजे॥ ९० ॥