राम इति ॥ सानुजः शान्तो रामोऽपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन्वृत्तिं कुर्वञ्जीवन्वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार ॥
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात् ॥ २१ ॥
प्रभावेति ॥ स रामः कदाचित्प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया यस्य तं वनस्पतिमाश्रितः सन् । किंचिदीषच्छ्रमादिव सीताया अङ्के शिश्ये सुष्वाप ॥
ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवा[१]चरन् ॥ २२ ॥
ऐन्द्रिरिति ॥ ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकस्तस्याः सीतायाः स्तनौ । प्रियस्य रामस्योपभोगचिह्नेषु । तत्कृतनखक्षतेष्वित्यर्थः । पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम् ॥ "दोषैकदृक्पुरोभागी" इत्यमरः ॥ दुःश्लिष्टदोषघातमाचरन्कुर्वन्निव । नखैर्विददार विलिलेख ॥ किलेत्यैतिह्ये ॥
तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः ।
आ[२]त्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ॥ २३ ॥
तस्मिन्निति ॥ रामया सीतयावबोधितो रामस्तस्मिन्काक इषीकास्त्रं काशास्त्रम् ॥ "इषीका काशमुच्यते" इति हलायुधः ॥ आस्थदस्यति स्म ॥ "असुक्षेपणे" इति धातोर्लुङ् । "अस्यतिवक्तिख्यातिभ्योऽङ्" इत्यङ्प्रत्ययः । "अस्यतेस्थुक्" इति थुगागमः ॥ स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान् ॥ मुचेः कर्तरि लिट् ॥ "धेनुं मुमोच" (२।१) इतिवत्प्रयोगः ॥
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥ २४ ॥
राम इति ॥ रामस्त्वासन्नदेशत्वाद्धेतोः पुनर्भरतागमनमाशङ्क्योत्सुकसारङ्गामुत्कण्ठितहरिणां चित्रकूटस्थलींं जहौ तत्याज ॥ आसन्नश्चासौ देशश्चेति विग्रहः ॥
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥ २५ ॥
२२-२३ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
मृगमांसं ततः सीतां रक्षन्तीमातपे शठः ।
पक्षतुण्डनखाघातैर्बबाधे वायसो बलात् ।