राजेति॥ तद्वियोगार्तः पुत्रवियोगदुःखितो राजापि स्वकर्मणा मुनिपुत्रवधरुपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभ प्रायश्चित्तममन्यत । मृत इत्यर्थः ॥
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ ११ ॥
विप्रोषितेति ॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम् । अस्तमितो मृत ईश्वरो राजा यस्य तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ ॥ “आमिषं भोग्यवस्तुनि" इति केशवः॥
अथानाथाः प्रकृतयो मा[१]तृबन्धुनिवासिनम् ।
मौलेरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ १२ ॥
अथेति ।। अथानाथा: प्रकृतयोऽमात्याः॥ “प्रकृतिः सहजे योनावमात्ये परमात्मनि" इति विश्वः ॥ मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः। पितृमरणगुप्त्यर्थमिति भावः । मौलराप्तैः सचिवैरानाययामासुरागमयांचक्रुः॥
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥ १३ ॥
श्रुत्वेति ॥ कैकेयीतनयो भरतः पितुस्तथाविधं स्वमातृमूलं मृत्युं मरणं श्रुत्वा स्वस्या मातुः केवलं मातुरेव पराङ्मुखो न। किंतु श्रियोऽपि पराङ्मुख आसीत् ॥
ससैन्यश्चान्वगाद्रामं द[२]र्शितानाश्रमालयैः ।
तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥ १४ ॥
ससैन्य इति ॥ ससैन्यो भरतो राममन्वगाच । किं कुर्वन् । आश्रमालयैर्वनवासिभिर्दशितानेते रामनिवासा इति कथितान्ससौमित्रलक्ष्मणसहितस्य तस्य रामस्य वसतिद्भुमान्निवासवृक्षान्पश्यन्नुदश्रू रुदन् ।
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयांचक्रे तम[३]नुच्छिष्टसंपदा ॥ १५॥
चित्रेति ॥ चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः । कथितपितृमरणः सन्नित्यर्थः । अनुच्छिष्टाननुभूतशिष्टा संपगुणोत्कर्षो यस्याः सा ॥"सं-
पद्भूतौ गुणोत्कर्षे" इति केशवः॥ तया लक्ष्म्या करणेन निमन्त्रयांचक्र आहूतवान्।।