तेनेति ॥ बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत् । कर्मणे प्रभवतीति कार्मुकं धनुश्च ॥ "कर्मण उकञ्" इत्युकञ्प्रत्ययः॥ अधिरोपितम् । भूभृतां रिपुर्भार्गवश्च । धूमशेषो धूमकेतनोऽग्निरिव । निष्पभो निस्तेजस्क आस बभूव ॥ आसेति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ॥
तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥८२॥
ताविति ॥ परस्परस्थितावन्योन्याभियुक्तौ । वर्धमानं च परिहीनं चेति द्वन्द्वः । वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघवभार्गवावपि । दिनात्यये सायंकाले पर्वणि भवौ पार्वणौ शशिदिवाकराविव । जनता जनसमूहः ॥ "ग्रामजनबन्धुसहायेभ्यस्तल" इति तल्प्रत्ययः ॥ पश्यति स्मापश्यत् ॥ अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ॥
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितम[३]मोघमाशुगं व्याजहार हरसूनुसंनिभः ॥ ८३ ॥
तमिति ॥ हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः । आत्मनि विषये स्खलितवीर्यं कुण्ठितशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य । व्याजहार बभाषे ॥
न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि ।
शंस किं गतिमनेन पत्रिणा हन्मि लोकमु[४]त ते मखार्जितम् ॥८१॥
नेति ॥ अभिभवत्यपि त्वयि । विप्र इति हेतोः। निर्दयं प्रहर्तुमलं शक्तो नास्मि । किंत्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि । उत मखार्जितं लोकं स्वर्गं हन्मि शंस ब्रूहि ॥
प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥८५॥
प्रतीति ॥ ऋषिर्भार्गवस्तं रामं प्रत्युवाच । किमिति । तत्त्वतः स्वरूपतस्त्वां पुरातनं पुरुषं न वेद्मीति न । किंतु वेदयेवेसर्थः । किंतु गां गतस्य भुवमवतीर्णस्य तव वैष्णवं धाम तेजो दिदृक्षुणा द्रष्टुमिच्छुना मया कोपितो ह्यसि ॥