रत्नसूरपि ॥ “ सत्सूद्विष-” इत्यादिना क्विप् ।। मेदिनी नावति न प्रीणाति ॥ अवधातू रक्षणगतिप्रीत्याद्यर्तेषूपदेशादत्र प्रीणने ॥ रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम् ॥
तदेव प्रतिपादयति--
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः॥६६॥
नूनमिति ॥ मत्तः परं मदनन्तरम् ॥ “पञ्चम्यास्तसिल्”॥ पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः । वंशोद्भवा वंश्याः पितरः । स्वधेत्यव्ययं पितृभोज्ये वर्तते । तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि ।। “पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः” इत्यमरः ॥ प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम् ॥ “ कामं प्रकामं पर्याप्तम्” इत्यमरः ॥ निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ॥
मत्परं दुर्लभं मत्वा नूनंमावर्जितं मया ।
पयः [१]पूर्वैः स्वनिश्वासैः कवोष्णमुपभुञ्जते ॥६७ ॥
मत्परमिति ॥ मत्परं मदनन्तरम् ॥ “अन्यारात्-” इत्यादिना पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मयावर्जितं दत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीषदुष्णं यथा तथोपभुज्यते । नूनमिति तर्के । कवोष्णमिति कुशब्दस्य कवादेशः॥ “कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति” इत्यमरः ।
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चा[२]प्रकाशश्च लोकालोक इवाचलः॥ ६८॥
सोऽहमिति ॥ इज्या यागः ॥ “व्रजयजोर्भावे क्यप्” इति क्यप्प्रत्ययः ॥ तया विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः सोऽहम् । लोक्यत इति लोकः । न लोक्यत इत्यलोकः । लोकश्चालोकश्चात्र स्त इति लोकश्चासावलोकश्चेति वा लोकालोकश्चक्रवालोऽचल इव ॥ “ लोकालोकश्चक्रवालः” इत्यमरः ॥ प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् । न प्रकाशत इत्यप्रकाशश्च पितॄणामविमोचनात् ॥पचाद्यच् ॥ अस्मीति शेषः। लोकालोकोऽप्यन्तः सूर्यसंपर्काद्वहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ॥