ह्रेपिता इति ॥ हे तात, तेन धनुषा बहवो धनुर्भूतो नरेश्वरा ह्रेपिता ह्रियं प्रापिता हि ॥ जिह्रतेर्धातोर्ण्यन्तात्कर्मणि क्तः॥“अर्तिह्री-" इत्यादिना पुगागमः ॥ ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भुजान्धिगिति विधूयावमत्य प्रतस्थिरे प्रस्थिताः॥
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गि[१]रा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥४१॥
प्रतीति ॥ ऋषिस्तं प्रत्युवाच । किमिति । अयं रामः सारतो बलेन निशम्यतां श्रूयताम् । अथवा गिरा सारवर्णनया कृतमलम् । गीर्न वक्तव्येत्यर्थः ॥ “युगपर्याप्तयोः कृतम्" इत्यमरः ॥ अव्ययं चैतत् । “कृतं निवारणनिषेधयोः" इति गणव्याख्याने । गिरेति करणे तृतीया । निषेधक्रियां प्रति करणत्वात् ॥ किंत्वशनिर्वज्रो गिराविव । चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ॥
एवमिति ॥ एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम् ॥ “हायनान्तयुवादिभ्योऽण्" इति युवादित्वादण् ॥ “पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि" इति विश्वः ॥ त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः ॥ “प्रमाणे द्वयसच्-" इत्यादिना मात्रच्प्रत्ययः । ततः स्वार्थे कप्रत्यय: ॥ तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव । श्रद्दधे विश्वस्तवान् ॥
व्यादिदेशेति ॥ अथ मैथिलः पार्श्वगान्पुरुषान्कार्मुकाभिहरणाय कार्मुकमानेतुम् ॥ "तुमर्थाच्च-" इति चतुर्थी ॥ सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय आविर्भावाय तोयदान्मेघानिव गणान्गणशः॥ “संख्यैकवचनाञ्च वीप्सायाम्" इति शस्प्रत्ययः ॥ व्यादिदेश प्रजिघाय ॥
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य[७] दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः॥ १४ ॥
तदिति ॥ दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयंकरं तद्धनुर्वीक्ष्याददे जग्राह । वृषो ध्वजश्चिह्रं यस्य स शिवो येन धनुषा । क्रतुरेव मृगः। विद्रुतं पला-