शय्येति ॥ शातोदरी गर्भमोचनात्कृशोदरी माता शय्यागतेन रामेण । सैकते पुलिने योऽम्भोजबलिः पद्मोपहारस्तेन शरदि कृशा जाह्नवी गङ्गेव । बभौ ॥
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ ७० ॥
कैकेय्या इति ॥ केकयस्य राज्ञोऽपत्यं स्त्री कैकेयी ॥ “तस्यापत्यम्” इत्यणि कृते “केकयमित्रयुप्रलयानां यादेरियः” इतीयादेशः ॥ तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः । यस्तनयः । प्रश्रयो विनयः श्रियमिव । जनयित्रीं मातरमलंचक्रे॥
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगा[१]राधिता विद्या प्रबोधविनयाविव ॥ ७१ ॥
सुताविति ॥ सुमित्रा लक्ष्मणशत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ । सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोधविनयौ तत्त्वज्ञानेन्द्रियजयाविव । सुषुवे ॥
निर्दोषमभवत्सर्वमाविष्कृतगणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ ७२ ॥
निर्दोषमिति ॥ सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम् । आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत् ॥ अत्रोत्प्रेक्षते-गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव ॥ स्वर्गो हि गुणवान्निर्दोषश्चेत्यागमः ॥ स्वर्गतुल्यमभूदित्यर्थः ॥
तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ॥ ७३ ॥
तस्येति ॥ चतुर्मूर्ते रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति । पौलस्त्याद्रावणाच्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्कैरपधूलिभिर्नभस्वद्भिर्वायुभिः । मिषेण । उच्छ्वसिता इव । इत्युत्प्रेक्षा ॥ श्वसेः कर्तरि क्तः ॥ स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः ॥ चतुर्दिगीशरक्षणं मूर्तिचतुष्टयप्रयोजनमिति भावः ॥
कृशानुरपधूमत्वात्प्र[२]सन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥ ७४ ॥
कृशानुरिति ॥ रक्षसा रावणेन विप्रकृतावपकृतौ । पीडितावित्यर्थः । कृशानुरग्निः प्रभाकरः सूर्यश्च यथासंख्यमपधूमत्वात्प्रसन्नत्वाच्चापविद्धशुचौ निरस्तदुःखाविवास्तामभवताम् ॥