प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारमाविष्कृतमुदन्वता ॥ ५२ ॥
प्राजापत्येति ।। नृपो दशरथः प्राजापत्येन प्रजापतिसंबन्धिना पुरुषेणोपनीतं न तु वसिष्ठेन ॥ “प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप” इति रामायणात् ॥ तदन्नं पायसान्नम् । उदन्वतोदधिनाविष्कृतं प्रकाशितं पयसां सारममृतं वृषा वासव इव ॥ “वासवो वृत्रहा वृषा” इत्यमरः ॥ प्रत्यग्रहीत्स्वीचकार ॥
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि य[१]त् ॥ ५३ ॥
अनेनेति ॥ तस्य राज्ञो दशरथस्यान्यैर्दुलभा असाधारणा गुणा अनेन कथिता व्याख्याताः । यद्यस्मात्त्रयो लोकास्त्रैलोक्यम् ॥ चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् ॥ तस्य प्रभवः कारणं विष्णुरपि तस्मिन्राज्ञि प्रसूतिमुत्पत्तिं चकमे कामितवान् । त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः ॥
स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् । ॥ ५४ ॥
स इति ॥ स नृपः। चरुसंज्ञास्य संजाता चरुसंज्ञितम् । वैष्णवं तेजः पत्न्योः कौसल्याकैकेय्योः । द्यौश्च पृथिवी च द्यावापृथिव्यौ । “दिवसश्च पृथिव्याम्” इति चकाराद्दिव्शब्दस्य यावादेशः ॥ तयोर्द्यावापृथिव्योः । अह्नः पतिरहर्पतिः ॥ “अहरादीनां पत्यादिषु वा रेफः” इत्युपसंख्यानाद्वैकल्पिको रेफस्य रेफादेशो विसर्गापवादः ॥ प्रत्यग्रमातपं बालातपमिव । विभेजे ॥ विभज्य ददावित्यर्थः ॥
पत्नीत्रये सति द्वयोरेव विभागे कारणमाह-
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ ५५ ॥
अर्चितेति ॥ तस्य राज्ञः ॥ कौ पृथिव्यां सलति गच्छतीति कोसलः ॥ “सल गतौ” ॥ पचाद्यच् ॥ कुशब्दस्य पृषोदरादित्वाद्गुणः ॥ कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या ॥ “वृद्धेत्कोसलाजादाञ्ञङ्” इति ञ्यङ् । “यङश्चाप्” इति चाप् ॥ अत एव सूत्रे निर्देशात्कोसलशब्दो दन्त्यसकारमध्यमः ॥ अर्चिता ज्येष्ठा मान्या । केकयवंशजा कैकेयी । प्रियेष्टा । अतो हेतोरीश्वरो भर्ता नृपः मुमित्रां ताभ्यां कौसल्याकैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म । एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ॥
१ प्रवृत्तिम्; निवृत्तिम्. २
- ↑ यः.