स्रष्टुरिति ॥ किंतु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः । मया तस्य दुरात्मनो रिपो रावणस्यात्यारूढमत्यारोहणम् । अतिवृद्धिरित्यर्थः ॥ नपुंसके भावे क्तः ॥ भोगिनः सर्पस्यात्यारूढं चन्दनेनेव । सोढम् ॥ चन्दनद्रुमस्यापि तथा सहनं स्रष्टुर्नियतेरिति द्रष्टव्यम् ॥
संप्रति वरस्वरूपमाह-
धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥ ४३ ॥
धातारमिति ॥ स राक्षसस्तपसा प्रीतं संतुष्टं धातारं ब्रह्माणम् । मर्त्येषु विषय आस्थापराङ्मुख आदरविमुखः सन् । मर्त्याननादृत्येत्यर्थः । दैवादष्टविधात्सर्गाद्दैवसृष्टेरवध्यत्वं ययाचे हि ॥
तर्हि का गतिरित्याशङ्क्य मनुष्यावतारेण हनिष्यामीत्याह-
सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम् ॥ ४४ ॥
सोऽहमिति ॥ सोऽहम् । दशरथस्यापत्यं पुमान्दाशरथिः ॥ “अत इञ्” इतीञ्प्रत्ययः ॥ रामो भूत्वा तीक्ष्णैः शरैस्तस्य रावणस्य शिरांस्येव कमलानि तेषामुच्चयं राशिं रणभूमेर्बलिक्षमं पूजार्हं करिष्यामि ॥ पुष्पविशदा हि पूजेति भावः ॥
अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥ ४५ ॥
अचिरादिति ॥ हे देवाः, यज्वभिर्याज्ञिकैर्विधिवत्कल्पितमुपहृतं भागं हविर्भागं मायाविभिर्मायावद्भिः ॥ “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । निशाचरै रक्षोभिरनालीढमनास्वादितं यथा तथाचिरात्पुनरादास्यध्वे ग्रहीष्यध्वे ॥
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥ ४६ ॥
वैमानिका इति ॥ मरुतां देवानां पथि व्योम्नि वैमानिका विमानैश्चरन्तः ॥ “चरति” इति ठक्प्रत्ययः । मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्धानतत्पराः पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः संक्षोभो भयचकितं तं त्यजन्तु ॥ “संक्षोभो भयचकितम्” इति शब्दार्णवः ॥
मोक्ष्यध्वे स्व[१]र्गबन्दीनां वेणीबन्धानदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥ ४७ ॥
- ↑ सुरबन्दीनाम्.