त्रेण तिष्ठतेरिनिः। “तत्पुरुषे कृति बहुलम्” इति सप्तम्या अलुक् । “स्थास्थिन्स्थॄणाम्” इति वक्तव्यात्षत्वम् ॥
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।
भयमप्रलयोद्वेलादाचख्युर्नैऋतोदधेः ॥ ३४ ॥
तस्मा इति ॥ सुरा देवाः । कुशलस्य संप्रश्नेन व्यञ्जिता प्रकटीकृता प्रीतिर्यस्य तस्मै । लक्षितप्रसादायेत्यर्थः ॥ अन्यथा अनवसरविज्ञप्तिर्मुखराणामिव निष्फला स्यादिति भावः । तस्मै विष्णवेऽप्रलये प्रलयाभावेऽप्युद्वेलादुन्मर्यादात् । नैर्ऋतो राक्षसः । स एवोदधिः । तस्माद्भयमाचख्युः कथितवन्तः ॥
अथ वेलासमासन्नशैलरन्ध्रा[१]नुनादिना ।
स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः॥ ३५ ॥
अथेति ॥ अथ वेलायामब्धिकूले समासन्नानां संनिकृष्टानां शैलानां रन्ध्रेषु गह्वरेष्वनुनादिना प्रतिध्वनिमता स्वरेण परिभूतार्णवध्वनिस्तिरस्कृतसमुद्रघोषो भगवानुवाच ॥
पुराणस्येति ॥ पुराणस्य चिरंतनस्य कवेस्तस्य भगवतो वर्णस्थानेषूरःकण्ठादिषु समीरिता सम्यगुच्चारिता । अत एव कृतः संपादितः संस्कारः साधुत्वस्पष्टतादिप्रयत्नो यस्याः सा भारती वाणी चरितार्था कृतार्था बभूवैव ॥ एवकारस्त्वसंभावनाविपरीतभावनाव्युदासार्थः ॥
बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यातशेषाचरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥ ३७ ॥
बभाविति ॥ विभोर्विष्णोर्वदनादुद्गता निःसृता । सदशनज्योत्स्ना दन्तकान्तिसहिता ॥ इदं च विशेषणं धावल्यातिशयार्थम् ॥ अत एव सा भारती । चरणादङ्घ्रेर्निर्याता चासौ शेषा च निर्यातशेषा । निःसृतावशिष्टेत्यर्थः ॥ “स्त्रियाः पुंवत्-” इत्यनुवर्त्य “पुंवत्कर्मधारय-” इति पुंवद्भावः ॥ निर्यातशब्दस्य या निर्याता सावशेषा सा गङ्गेवेति सामानाधिकरण्यनिर्वाहः । निर्यातायाः शेषेति विग्रहे पुंवद्भावो दुर्घट एव ॥ ऊर्ध्वप्रवर्तिन्यूर्ध्ववाहिनी गङ्गेव । बभौ । इत्युत्प्रेक्षा ॥