विधेरिति ॥ स राजा सायंतनस्य सायंभवस्य ॥ “सायंचिरम्-” इत्यादिना ट्युल्प्रत्ययः॥ विधेर्जपहोमाद्यनुष्ठानस्यान्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम् ।। कर्मणि क्तः। उपसर्गक्शात्सकर्मकत्वम् । “अन्वास्यैनाम्” इत्यादिवदुपपद्यते ॥ तपोनिधिं वशिष्ठम् । स्वाहया स्वाहादेव्या॥ “अथाग्नायी स्वाहा च हुतभुक्प्रिया" इत्यमरः ॥ अन्वासितं हविर्भुजमिव । ददर्श ॥ “ समित्पुष्पकुशाग्न्यम्बुमृदन्नाक्षतपाणिकः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत्” इत्यनुष्ठानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम् ॥ अन्वासनं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन । विधेरन्त इति कर्मणः समाप्त्यभिधानात् ।।
तयोर्जगृहतुः [१]पादान्राजा राज्ञी च मागधी।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः॥ ५७ ॥
तयोरिति ॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवशिष्ठयोः पादाञ्जगृहतुः ॥ “पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्” इत्यमरः ॥ पादग्रहणमभिवादनम् । गुरुपत्नी गुरुश्च । कर्तारौ । सा च स च तौ सुदक्षिणादिलीपौकर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः । आशीर्वादादिभिः संभावयांचक्रतुरित्यर्थः ।।
[२]तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः॥५८॥
तमिति ॥ मुनिः । अतिथ्यर्थमातिथ्यम् ॥ "अतिथेर्ञ्य” इति ञ्यप्रत्ययः ॥ आतिथ्यस्य क्रिया । तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनिम् । मुनितुल्यमित्यर्थः । तं दिलीपं राज्ये कुशलं पप्रच्छ ॥ पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः तथाप्यत्र सप्ताङ्गवचनः । “उपपन्नं ननु शिवं सप्तस्वङ्गेषु” ( १।६०) इत्युत्तरविरोधात् ॥ तथाह मनुः “स्वाम्यमात्यपुरं राष्ट्रं कोषदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते” इति । तत्र “ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥” इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाद्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम् । अत एवोक्तम् “राज्याश्रममुनिम्” इति ॥