न्तः । न पन्था इत्यपथम् ॥ “पथो विभाषा" इति वा समासान्तः । “अपथं नपुंसकम्" इति नपुंसकम् ॥ "अपन्थास्त्वपथं तुल्यम्" इसमरः ॥ तस्मिनपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि । प्रवर्तन्त इत्यर्थः ॥ वैतालीयं वृत्तम् ।।
हा तातेति ॥ हेत्यार्तौ । तातो जनकः ॥ " हा विषादशुगर्तिषु” इति । "तातस्तु जनकः पिता" इति चामरः ॥ हा तातेति क्रन्दितं क्रोशनमाकर्ण्य । विषण्णो भग्नोत्साहः सन् । तस्य क्रन्दितस्य वेतसैर्गूढं छन्नम् । प्रभवत्यस्मादिति प्रभवः कारणम् । तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । “शल्यं शङ्कौ शरे वंशे" इति विश्वः ॥ सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत् ॥ मत्तमयूरं वृत्तम् ॥
तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः।
तस्मै द्विजेतरत[३]पस्विसुतं स्खलद्भि-
रात्मानमक्षरपदैः कथयांबभूव ॥७६ ॥
तेनेति ॥ प्रथितान्वयेन प्रख्यातवंशेन ॥ एतेन पापभीरुत्वं सूचितम् ।। तेन राज्ञा तुरगादवतीर्य पृष्टान्वयो ब्रह्महत्याशङ्कया पृष्टकुलः। जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः। अशक्तिवशादर्धोच्चारितैरित्यर्थः । अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयांबभूव ॥ न तावस्त्रैर्वणिक एवाहमस्मि किंतु करणः ॥ “वैश्यात्तु करणः शूद्रायाम्" इति याज्ञवल्क्यः ॥ कुतो ब्रह्महत्येत्यर्थः ॥ तथा च रामायणे-"ब्रह्महत्याकृतं पापं हृदयादपनीयताम् । न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा । शूद्रायामस्मि वैश्येन जातो जनपदाधिप" इति ।