पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १८९ )
नवमः सर्गः ।

पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव । मधुर्वसन्तः ॥ “अथ पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते च मधुः” इति विश्वः ॥ नवैः कुसुमैरुपलक्षितः सन्समाववृते समागतः ॥ “रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम् ” इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ॥

  जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
  दिनमुखानि रविर्हिमनि[१]ग्रहैर्विमलयन्मलयं नगमत्यजत् ॥२५॥

 जिगमिषुरिति ॥ धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छु:। रथयुजा सारथिनारुणेन परिवर्तितवाहनो निवर्तिताश्वो रविः। हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् । मलयं नगं मलयाचलमत्यजत्। दक्षिणां दिशमत्याक्षीदित्यर्थः ॥

  कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
  इति यथाक्रममाविरभून्मधूर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ २६ ॥

 कुसुमेति ॥आदौ कुसुमजन्म । ततो नवपल्लवाः । तदनु ॥ “अनुर्लक्षणे” इति कर्मप्रवचनीयत्वाद्वितीया ॥ यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम् । इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त आविरभूत् ॥केषांचिद्द्रुमाणां पल्लवप्राथम्यात्केषांचित्कुसुमप्राथम्यान्नोक्तक्रमस्य दृष्टविरोधः॥

  नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः।
  अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः॥२७॥

 नयेति ॥ नयो नीतिरेव गुणः । तेन । अथवा नयेन गुणैः शौर्यादिभिश्चोपपचिताम् । सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव । मधुना वसन्तेन संभृतां सम्यक्पुष्टां सरसः संबन्धिनीं कमलिनीं पद्मिनीमलिनीरपतत्रिणः। अलयो भृङ्गाः। नीरपतत्रिणो जलपतत्रिणो हंसादयश्च। अभिययुः।

  कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
  किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः२८

 कुसुममिति ॥ ऋतुरस्य प्राप्त आर्तवम् ।। “ऋतोरण्” इत्यण ॥ नवं प्रत्यग्र-

२४-२५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

हिमविवर्णितचन्दनपल्लवं विहरयन्मलयाद्रिमुदङ्मुखः ।
विहगयोः कृपयेव शनैर्ययो रविरहर्विरहध्रुवभेदयोः ॥


  1. निर्ग्रहै: