स इति ॥ दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः । श्रान्तवाहनो दूरोपगमनान्क्लान्तयुग्यः । महिष्याः सखा महिषीसखः ॥ “राजाहःसखिभ्यष्टच्” इति टच्प्रत्ययः ॥ सहायान्तरनिरपेक्ष इति भावः ॥ स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वशिष्ठस्याश्रमं प्रापत्प्राप ॥ पुषादित्वादङ्॥
तमाश्रमं विशिनष्टि-
वनान्तरादिति ॥ वनान्तरादन्यस्माद्वनादुपावृत्तैः प्रत्यावृत्तैः । समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः । तैः “आङिताच्छील्ये” इति हरतेराङ्पूर्वादच्प्रत्ययः ॥ अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः । तैस्तपस्विभिः पूर्यमाणम् ॥ “प्रोष्यागच्छतामाहिताग्रीनामग्नयः प्रत्युद्यान्ति” इति श्रुतेः । यथाह- “कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति । एवमेतमग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन् ” इति ॥
आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः॥ ५० ॥
आकीर्णमिति ॥ नीवाराणां भाग एव भागधेयोंऽशः ॥ “ रूपनामभागेभ्यो धेयः” इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रययः ॥ तस्योचितैः । अत एवोटजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैः। ऋषिपत्नीनामपत्यैरिव । आकीर्णं व्याप्तम्
सेकान्ते मुनिकन्याभि[३]स्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहंगानामालवालाम्बुपायिनाम् ॥ ५१ ॥
सेकान्त इति ॥ सेकान्ते वृक्षमूलसेचनावसाने मुनिकन्याभिः । सेक्त्रीभिः । आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम् ॥ “स्यादालवालमावालमावापः” इत्यमरः ॥ विहंगानां पक्षिणां विश्वासाय विश्रम्भाय “ समौ विश्वासविश्रम्भौ” इत्यमरः ॥ तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिंस्तम् ॥ हस्वार्थे कप्रत्ययः॥
आतपा[४]त्ययसंक्षिप्तनीवारासु निषादिभिः।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ ५२॥