पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १५१ )
सप्तमः सर्गः ।

  स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
  अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ ४३ ॥

 स इति ॥ क्षतजेन रुधिरेण छिन्नमूलः । त्याजितभूतलसंबन्ध इत्यर्थः । तस्य क्षतजस्योपरिष्टात्पवनावधूतो वाताहतः स रेणुः ॥ अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव । आबभासे दिदीपे ॥

  प्रहारमूर्छापगमे र[१]थस्था यन्तॄनुपालभ्य नि[२]वर्तिताश्वान् ।
  यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ४४ ॥

 प्रहारेति ॥ रथस्था रथिनः प्रहारेण या मूर्छा तस्या अपगमे सति । मूर्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा । निवर्तिताश्वान्यन्तॄन्सारथीनुपालभ्यासाधु कृतमित्यधिक्षिप्य । पूर्वं यैः स्वयं सांदिता हताः । लक्षितपूर्वकेतून् । पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः । तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजह्रुः ॥

  अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
  संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ४५ ॥

 अपीति ॥ अर्धश्चासौ मार्गश्च तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या स्ववेगानुबन्धेन हेतुना फलिभिर्लोहाग्रवद्भिः ॥ "सस्यबाणाग्रयोः फलम्" इति विश्वः ॥ पूर्वार्धभागैः । शृणातीति शरुः । तस्मै हितं शरव्यं लक्ष्यम् ॥ "उगवादिभ्यो यत्" इति यत्प्रत्ययः ॥ "लक्षं लक्ष्यं शरव्यं च" इत्यमरः ॥ संप्रापुरेव । न तु मध्ये पतिता इत्यर्थः ॥

  आधोरणानां गजसंनिपाते शिरांसि च[३]क्रैर्निशितैः क्षु[४]राग्रैः ।
  हृ[५]तान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ४६ ॥

 आधोरणानामिति ॥ गजसंनिपाते गजयुद्धे निशितैरतएव क्षुराग्रैः क्षुरस्याग्रमिवाग्रं येषां तैश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि । श्येनानां पक्षिविशेषाणाम् । "पक्षी श्येनः" इत्यमरः ॥ नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि । आधोरणानां हस्त्यारोहाणाम् ॥ "आधोरणा हस्तिपका हस्त्यारोहा निषादिनः" इत्यमरः ॥ शिरांसि चिरेण पेतुः पतितानि ॥ शिरःपातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ॥


  1. रथस्थान्.
  2. विवर्तिताश्वान्; निवर्तिताश्वाः.
  3. मुक्तैः.
  4. क्षुरग्रैः.
  5. हृतानि.