यस्मिन्निति ॥ यस्मिन्दिलीपे महीं शासति सति । विहरत्यत्रेति विहारः क्रीडास्थानम् । तस्यार्धपथे निद्रां गतानां वाणिनीनां मत्ताङ्गनानाम् ॥ “वाणिनी नर्तकीमत्ताविदग्धवनितासु च " इति विश्वः । “वाणिन्यौ नर्तकीमत्ते" इत्यमरश्च ॥ अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत् । आहरणायापहर्तुं को हस्तं लम्बयेत् ।। तस्याज्ञा सिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः॥ अर्धश्चासौ पन्थाश्चेति विग्रहः । समप्रविभागे प्रमाणाभावान्नैकदेशिसमासः॥
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता।
च[४]तुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥७६॥
पुत्र इति ॥ विश्वजितो नाम महाक्रतोः प्रयोक्तानुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव प्रशास्ति पालयति । यो रघुश्चतसृभ्यो दिग्भ्य आवर्जिताहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूतिं संपदं मृत्पात्रमेव शेषो यस्यास्तामकरोत् ॥ विश्वजिद्यागस्य सर्वस्वदक्षिणाकत्वादित्यर्थः ॥
आरूढमद्रीनुदधीन्वि[५]तीर्णं भुजंगमानां वसतिं प्रविष्टम् ।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥७७॥
आरूढमिति ॥ किंच । अद्रीनारूढम् । उदधीन्वितीर्णमवगाढम् । सकलभूगोलव्यापकमित्यर्थः । भुजंगमानां वसतिं पातालं प्रविष्टम् । ऊर्ध्व स्वर्गादिकं गतं व्याप्तम् । इत्थं सर्वदिग्व्यापीत्यर्थः । अनुबध्नातीत्यनुबन्धि चाविच्छेदि । कालत्रयव्यापकं चेत्यर्थः । अतएवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिन्मानेन परिच्छेत्तुं परिमातुं नालं न शक्यम् ॥
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः।
गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः स[६]दृशं बिभर्ति ॥७॥
असाविति ॥ असावजाख्यः कुमारः । त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव ॥ जयन्तः पाकशासनिः" इत्यमरः ॥ तं रघुमनुजातः । तस्माज्जात इत्यर्थः । तज्जातोऽपि तदनुजातो भवति जन्यजनकयोरानन्तर्यात् ॥ गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च " इति क्तः ॥ सोपसृष्टत्वात्सकर्मकत्वम्
। आह चात्रैव सूत्रे वृत्तिकारः श्लिषादयः सोपसृष्टाः सकर्मका भव-