रेखे राजी भुजाभ्यां बिभर्ति।। द्विवचनात्सव्यसाचित्वं गम्यते।रिपुश्रियां भुजाभ्यामेवाहरणात्तद्गतरेखयोस्तत्पद्धतित्वेनोत्प्रेक्षा । तयोः श्यामत्वात्साञ्जनाश्रुसेकोक्तिः॥
यमात्मनः सद्मनि सं[१]निकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ॥ ५६ ॥
यमिति ॥ आत्मनः सद्मनि सुप्तं यं हेमाङ्गदं संनिकृष्टः समीपस्थोऽत एव प्रासादवातायनैर्दृश्यवीचिर्मन्द्रेण गम्भीरेण ॥ "मन्द्रस्तु गम्भीरे" इत्यमरः ॥ ध्वनिना त्याजितं विवर्जितं यामस्य तूर्यं प्रहरावसानसूचकं वाद्यं येन स तथोक्तः॥ "द्वौ यामप्रहरौ समौ" इत्यमरः ॥ अर्णव एव प्रबोधयति । अर्णवस्यैव तूर्यकार्यकारित्वात्तद्वैयर्थ्यमित्यर्थः । समुद्रस्यापि सेव्यः किमन्येषामिति भावः ॥
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गापुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ ५७॥
अनेनेति ॥ अनेन राज्ञा सार्धं तालीवनैर्ममेरेषु मर्मरेति ध्वनत्सु ॥ “अथ मर्मरः । स्वनिते वस्त्रपर्णानाम्" इत्यमरवचनाद्गुणपरस्यापि मर्मरशब्दस्य गुणिपरत्वं प्रयोगादवसेयम् ॥ अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः ॥ "लवङ्ग देवकुसुमम्" इत्यमरः ॥ मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड।
प्रलोभिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् ।
तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥५८॥
प्रलोभितेति ॥ आकृत्या रूपेण लोभनीयाकर्षणीया । न तु वर्णनमात्रेणेत्यर्थः । विदर्भराजावरजा भोजानुजेन्दुमती तया सुनन्दयैवं प्रलोभितापि प्रचोदितापि । नीत्या पुरुषकारेण दूरकृष्टा दूरमानीता लक्ष्मीः प्रतिकूलं दैवं यस्य तस्मात्पुंस इव । तस्माद्धेमा्घ्गदादपावर्तत प्रतिनिवृत्ता ।।
अथेति ॥ अथ द्वारे नियुक्ता दौवारिकी सुनन्दा ॥ “तत्र नियुक्तः" इति उक्प्रत्ययः ॥ " द्वारादीनां च" इत्यौआगमः ॥ आकारेण देवसरूपं देवतुल्यम् ।
उरगाख्यस्य पुरस्य पाण्ड्यदेशे कान्यकुब्जतीरवर्तिनागपुरस्य नाथमेत्य प्राप्य ।