सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ११० )
रघुवंशे

नुस्तनूः" इत्यमरः ॥ तन्वादेर्वेत्यूङिति केचित् ॥ प्रियंवदं प्रियंवदाख्यमवेहि जानाहि । प्रियं वदतीति प्रियंवदः ॥ “प्रियवशे वदः खच्" इति खच्प्रत्ययः ॥

  स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मदुतामगच्छत् ।
  उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्लजस्य ॥५४॥

 स इति ॥ स महर्षिश्च प्रणतेन मयानुनीतः सन्पश्चान्मृदुतां शान्तिमगच्छत् ॥ तथाहि । जलस्योष्णत्वमग्नेरातपस्य वा संप्रयोगात्संपर्कात् । न तु प्रकृत्योष्णत्वम् । यच्छैत्यं सा प्रकृतिः स्वभावः ॥ विधेयप्राधान्यात्सेति स्त्रीलिङ्गनिर्देशः॥ महर्षीणां शान्तिरेव खभावो न क्रोध इत्यर्थः ॥

  इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
  संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥५५॥

 इक्ष्वाक्विति ॥ इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहाग्रेण शरेण भेत्स्यति विदारयिष्यति तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे संगंस्यस इति स तपोनिधिर्मामवोचत् ॥

  संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ।
  प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः॥५६॥

 संमोचित इति ॥ चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता त्वयाहं शापासंमोचितो मोक्ष प्रापितः । भवतः प्रतिप्रियं प्रत्युपकारं न कुर्यां चेन्मे स्वपदोपलब्धिः स्वस्थानप्राप्तिः ॥ “ पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" इत्यमरः ॥ वृथा स्यादि । तदुक्तम्-“प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्" इति।

  संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
  गान्धर्वमा[]दत्स्व यतः प्र[]योक्तुर्न चारिहिंसा विजयश्व हस्ते।।५७॥

 संमोहनमिति ॥ हे सखे । सखिशब्देन समप्राणतोक्ता । यथोक्तम्-"अत्यागसहनो बन्धुः सदैवानुमतः सुहृत् । एकक्रियं भवेन्मित्रं समप्राणः सखा मतः" इति ॥ प्रयोगसंहारयोविभक्तमन्त्रं गान्धर्वं गन्धर्वदेवताकम् । संमोह्यतेऽनेनेति संमोहनं नाम ममास्त्रमादत्स्व गृहाण । यतोऽस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणॊऽरिहिंसा न

च विजयश्च हस्ते । हस्तगतो विजयो भवतीत्यर्थः॥


  1. आधत्स्व.
  2. प्रहर्तुः