पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ - | बो० ए० परीक्षा सन्निधत्ते | गृहेऽध्ययने प्रत्यूहो जायते – महान् कोलाहलो भवति । अतो नरेन्द्रनाथः स्वगृहनिकटवर्तिनो मातामही - भवनस्य द्वितीयतलस्थैकप्रकोष्ठ समागत्य न्यवसत् । समस्तां निशां जागृतः पपाठ | दिने मित्राणां सम्मर्दः, ब्राह्मसमाजे, दक्षिणेश्वरे च गमागमौ, अन्यान्यपि बहूनि कार्याण्यासन् तस्यासाधारणः संयम: स्मृतिशक्तिश्च असाधारणी आसीत् । बी० ए० परीक्षायां केवलं मास एकोऽवशिष्यते । इतश्च इङ्गलैण्डस्येतिहास एकवारमपि नापठ्यत । सम्प्रति क उपाय: ? बहुधा सुविचार्थ्यासौ ऐतिहासिकग्रन्थान् रात्रिन्दिवमपठत् । त्रिचतुर्दिनाभ्यन्तरमेव सम्पूर्णोऽपीतिहासः कण्ठस्थी- कृतोऽभूत् । बी० ए० परीक्षादिवसेऽत्युषस्येव स उदतिष्ठत् । भ्राम्यन्नसौ सहपाठिदाशरथिसान्यालस्य चोरबागानस्थे भवने समाययौ । तदानीं सर्वान् निद्रितानवलोक्य उच्चैः स्वरेण गानमकरोत्- "महासिंहासने बसि शुनिछो हे विश्वपति, तोमारइ रचित छन्दे महान् विश्वेर गीत | मर्तेर मृत्तिका होये, खुद्र एइ कंठ लोये, आमिओ तोमरि द्वारे होयेछि हे उपनीत । किछु नाहि चाहि देव, केवल दर्शन मागि तोमारे शुनाबो गीत एशेछि ताहारि लागि ।