पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५ ) दिवालोकवत् प्रत्यभासन्त | तत्त्वैः तथ्यैश्च पूर्णोऽयं ग्रंथ: संक्षिप्तोऽपि अखिलभारतस्य संस्कृताभिज्ञानां कृते आदर्शग्रंथपदमधिष्ठातुमर्हति । ग्रन्थेऽस्मिन् स्वामिनो जीवनघटनातिरिक्ततया TISFE तत्सम्बन्धे mains TRASIFS पञ्चदश स्तोत्राणि तथा प्रकाशकानुमत्या "वीरवाणी" पुस्तके प्रकाशिताः श्री विवेकानन्दरचिता “अम्बास्तोत्रं" "शिवस्तोत्रं” “The Song of the Free " “The Song of Sannyasin" ( श्लोकात्मनानूदितं ) कृतयः, श्लोकबद्ध - "संक्षिप्तस्वामिविवेकानन्दचरितं”, “स्वामि विवेका नन्दोपदेशद्विशती" ( श्लोकरूपेण ), "श्लोकशतात्मकं स्वामि विवेका Mem नन्दचरितं " एवमादयो निबन्धाः समावेशिताः सुवर्णसौरभायिताः ग्रन्थस्य महत्तां प्रयोजनीयतां च समेधयन्ति । स्वामि-सम्बन्धेषु स्तोत्रेषु दश स्तोत्राणि प्रकाशकसम्मत्या प्राचीनाया 'उद्बोधन' पत्रिकायाः संगृहीतानि । अस्य ग्रन्थस्य संस्कृतानुवादं काशीनिवासी पण्डितप्रवरः श्रीगोपाल- चन्द्र चक्रवर्ति-वेदान्तशास्त्री प्रणिनाय | पाण्डुलिपेः संशोधनम् अध्यापक- वरेण्यः पण्डितवरः श्री टी० ए० भण्डारकर साहित्याचार्यः व्यधत्त । ग्रन्थसम्पादनञ्च वाराणसीहिन्दूविश्वविद्यालये संस्कृतपालीविभाग- प्रधानाध्यक्षः काव्यतीर्थ-न्यायाचार्य: ( प्राप्तसुवर्णपदकः ) डाक्टर- श्रीसिद्धेश्वरभट्टाचार्यः एम० ए० डी० लिट्-महोदय: समकार्षीत् । एतान् सर्वान् महाभागान् प्रति निजमान्तरं धन्यवादं विज्ञापयामि । एतद्व्यतिरेकेण अन्येऽपि भूयांसो महानुभावा अस्य ग्रन्थस्य प्रकाशन- कार्ये अनल्पं साह्यमाचरन् । वयं सर्वेषामेषां पुरः आन्तरिकों कृतज्ञतां धन्यवादेन समं विनिवेदयामः ।