पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः , प्रतीक्षमाणोऽसौ बहिरगच्छत् पुनर्गृहमायातः । श्रीठाकुरोऽन्यैर्वार्ता- मकरोत् । तदभिमुख मेकवारमाननं परावृत्यापश्यदपि न । स पुनर्निर- गच्छत् । कतिचित्क्षगानन्तरमसौ अभ्यन्तरमागत्योपाविशत् । श्रीठाकु रस्तं संस्तर पार्श्व परिवर्त्य अशयिष्ट। तस्यैतदुदासीनत्वं मौनत्वं च नरेन्द्रनाथस्य कृतेऽसहनीयमभूत् । तस्य हृदयमुन्मथ्य रुदितमिव प्रवृत्तम् । परमसावधीरतावान् मानवो नासीत् । स आत्मानमरक्षीत् । शनैः शनैः श्रीठाकुरं प्रणम्य गृहं प्रत्याववृते । । ५९ अनेकानि सप्ताहानि व्यत्यगुः | नरेन्द्रनाथः प्रतिसप्ताह मागच्छत्, किन्तु श्रीरामकृष्णोदासीनतायां किमपि परिवर्त्तनं नाभूत् । बहो: कालादनन्तरं श्रीठाकुरो नरेन्द्रमपृच्छत् - "अहो, मया तु त्वां प्रत्ये काऽपि वार्त्ता न क्रियते, तथापि त्वं कथमायासि, कथय ? " भववार्ता श्रोतुमा- भवदर्शनमन्तरेण नाहं स्थातुं - सहजस्वरेण नरेन्द्र उदतरत् - "किमहं गच्छामि ? भवत्यहं प्रीतिं विदधे, शक्नोमि, अत एवागच्छामि ।” इतोऽधिकं कथनीयं किमस्ति ? श्रीरामकृष्णस्यैतावदेवाभिप्रेतम् । नरेन्द्रस्तस्मिन् स्निह्यति, एतदेवावगत्य स प्रासीदत् । तेन प्रोक्तम्- "मया त्वं परीक्ष्य दृष्टोऽसि । आदरं स्नेहमप्राप्यापि त्वं पलायसे न बा, त्वाद्दशनैत्र पुरुपेगेयती उपेक्षा सोढुं शक्यते ।”... श्रीरामकृष्णो नरेन्द्रनाथश्चोभावभिन्नात्मानौ आसाताम् । श्रीठाकु- रस्याध्यात्मिको शक्तिर्विद्रोहिणं नरेन्द्रं वश्यतामनयत् । क्रमेणासौ श्रीरामकृगं पथप्रदर्शकगुरुरूपेण स्वीचकार । एतस्मिन् श्रीरामकृष्णस्य विराडाध्यात्मिकी शक्तिरविद्यत । स्वीकारे “करिष्ये वचनं ९ तव” — इति स्त्रीकृतेः प्राक अर्जुनं वशीकर्तु भगवता श्रीकृष्णेन महान् परिश्रमः समनुष्ठितः । अष्टादशाध्यायिनी गीता एतस्यैत्र परिणामभूता | विश्वरूपप्रदर्शनेनापि परिपूर्णा सफलता नाधिगता | पार्थं यन्त्रीकृत्य यथा श्रीकृष्णो निजधर्मसंस्थापन कार्य सुसमपादयत्, तथैव विवेका-