पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकाशकस्य निवेदनम् स्वामिविवेकानन्द महाराजस्य शततमं जन्मोत्सवमुपलक्ष्य स्मारक- ग्रन्थरूपेण संस्कृतभाषायां तस्य जीवनीग्रन्थस्य प्रकाशनपरिकल्पना शतवार्षिक समित्या कृता । तदनुसारं प्रायो मासचतुष्टयात्पूर्वं संस्कृत- जीवनी-प्रन्थस्य मुद्रणकार्यम् आरब्धमभूत् । किन्तु अनेकप्रतिबन्धवशात् प्रतिकूलावस्थावृतत्वाच्च शताब्दी वर्षसमाप्तेः पूर्वं तस्य प्रकाशनम् अशक्य सम्भवमभवत् । अधुना 'युगाचार्य - विवेकानन्दः' नाम्ना तं जीवनीग्रन्थं प्रकाशमानेतुं वयममन्दानन्दं विन्दामः । ग्रन्थस्य विवेकानन्दस्वामिनः देवभाषायां सविशेषा श्रद्धा प्रीतिश्चास्ताम् । किञ्च तस्या भाषायाः प्रचुरप्रचारे स विशिष्य गुरुत्वमाधानः अवर्तत । स एतावदप्याबभाषे “स्त्रीषु तथा निम्नश्रेण्या मानवेषु च संस्कृतशिक्षायाः विस्तारः सर्वप्रथममावश्यकः । अये निम्नवर्गीयाः · लोकाः ! युष्मानहं वक्तं प्रभवामि यत् युष्माकमुन्नतेः एक एवोपाय:- संस्कृतशिक्षा अस्ति, ...तथा उच्चवर्णानां शिक्षायाः स्वायत्तीकरणम् ।” संस्कृतभाषायां स्वामिनः गाढा श्रद्धा तथा तस्या भाषायाः प्रचारस्य प्रयोजनीयता च तस्यान्तरस्य गभोरतम प्रदेशस्य कियत् स्थानमधिकृतमकुरुताम् इत्यस्य उपरितनोत्या आंशिक: परिचय: सम्प्राप्यते । प्राचीनार्यऋषीणां सदुपदेशाः एवं सनातन वैदिकधर्मस्य मूलप्रन्थसमूहा अपि संस्कृतभाषायामेव रचिताः विद्यन्ते । अतः