पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२९ रोमवार्तापि नासीत् गहनवनगता न ज्ञातो ग्रीसदेशोऽभवदवनितले यूरोपस्थाच लोका 'ध्वान्तच्छन्नेतिहासं जगदिदमखिलं, दुर्बला किंवदन्ती तत्रासी दुच्चशैलस्थिरतरवसतिः आदर्शानां जन्मभूर्विश्रुतानां सद्भावानामाकरो स्वामि विवेकानन्दोपदेश द्विशती अस्मादेवाध्यात्मिकज्ञानधारा- दीर्घमासन्नसभ्याः । संस्कृतिर्भारतीया ||१३०|| भारतं नः । पूरः पूर्वे प्रस्थितोऽभूज्जगत्याम् ॥ १३१॥ संसारे पुनरप्यस्मिन्पूरोऽयं प्रसरिष्यति । नवजीवनसंचारो ध्रुवं येन भविष्यति का पुण्यभूमिरुचिता जगतीतलेऽस्मिन् Lader किं स्थानमत्र परमीश्वरलाभसिद्ध्यै ? नृणां च कर्मफलभोगपदं किमास्ते ? तत्रोत्तरं शृणुत भारतभूरियं नः || १३३ | क्षेत्रं किमस्ति बलशीलदयागुणाना- मन्तर्दृशोऽप्यजनि यत्र परो विकासः । जाता च यत्र परमात्मविचारचर्चा तत्रोत्तरं शृणुत भारतभूरियं नः ।।१३४।। महामहिममण्डिता भवति भारती भूः पुरा समुज्ज्वलतरा ध्रुवं स समयोऽचिरादेष्यति । गृहीतजनुषोऽत्र संश्रुतमहर्षयः पूर्ववत् समग्रजगतो जनान् सुपथगान्विधास्यन्ति ते ||१३५|| ॥१३२।।