पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः तुदन्तु सुहृदः सर्वे रुदन्तु तव बान्धवाः | श्रयसी न गतिः पश्चान्नित्यमप्रगतिर्भवेः ||२७|| उपेक्ष्यते यज्जनताजनार्दनो महत्तदंहः क्रियते निरन्तरम् । ध्रुवं हि तन्नः पतनस्य कारणं न विस्मरातो जनतासमुन्नतिम् ||२८|| निष्फला राजनीतिः स्यात्समुदायकृतेन या । तत्तच्छिक्षान्नवा सानामुपायान् परिचिन्तयेत् ॥ २६॥ नताशे विश्वसिमीश्वरेऽहं यो मह्यमन्नं न ददाति भूमौ । प्रयोजनं स्वर्गसुखेन किं मे शिक्षान्नशून्या यदि भारतीयाः ||३०|| ईर्षा द्वेषं परित्यज्य सहान्यैर्भव सोद्यमः । स्वदेशबन्धुवर्गार्थमिदमावश्यकं परम् ॥ ३१॥ उत्थाय धारय धुरं त्वरितं जगत्यां जानासि जीवितमिदं क्षणभंगुरं ते । जातोऽसि यत्किमपि लक्ष्म त्यज स्वकोयं जाताः स्थिताः कति न वा पशवो म्रियन्ते ॥ ३२ ॥ भयं पुत्र ! परित्यज्यानिशमग्रेसरो भवेः । निर्भीका एव शोभन्ते नराः केसरिणो यथा ॥३३॥ विमुक्त्यै देशस्य प्रयतनपरोऽथास्य जगतो भव, त्वय्येवास्ते शृणु सकलसेवाभरधृतिः । उत्वन्तर्ज्योतिः सततमधिजीवात्मनिहितं रुचिर्वेदान्तस्य प्रतिगृहमिदानीं प्रविशतु ॥३४॥