सामग्री पर जाएँ

पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९७ हस्तः विभिन्नदेशेषु परश्शतप्राणेषु दीपवर्त्तिकां चिरमेव तदीयकर्म प्रचलिष्यति । * युगाचार्य- विवेकानन्दः प्रज्वालयिष्यति । महाप्रस्थानाय स्वामी प्रस्तुतोऽभवत् । किन्तु तदा नितरामस्वा- स्थ्यकालेऽपि स स्वीयगुरुपदमनुसृत्य कानपि प्रार्थिनो न परराङ्मुखान- कार्षीत् । जीवनस्यान्तिमं दिनं यावत् स लोकानशिक्षयत् । स्वीय- प्राणेषु प्रज्वलितां वह्निशिखां स बहुष्वेव प्राणेषु संक्रामितां चकार | स खल्ववदत् - "यदि देशवासिनां मनांसि प्रबोधयितुं शतशो मरण- यातना अपि भोक्तव्या एव स्युस्तदापि तत्र नाहं पराङ्मुखः स्याम् ।” - ते ८

  • १९२१ सृष्टाब्दे स्वामिनः जन्मोत्सव दिवसे सस्त्रीको महात्मा गान्धिः,

) पण्डितो मोतीलालनेहरू, मिस्टरमोहम्मदआलीप्रभृतयः कतिसहकमिंसमभिव्या- हारेण वेलुडमठमालोकयितुमागच्छन् । ते खल स्वामिनः निवासगृहस्थितानि तद्व्यवहृत-द्रव्याणि सश्रद्धमालोकयन् । जनसमूहानां विशेषाग्रहेण महात्मा गान्धि: स्वामिनः गृहपार्श्वस्थिताद अलिन्दादेव हिन्दी भाषया संक्षिप्ता मेकां वक्तृतामकरोत् । तत्र कथा-प्रसङ्गेन एव सोऽवदत् – “अहमत्र असहयोग- स्यान्दोलनं चरखा कार्यं वा प्रचारयितुं नागतः । स्वामिनो विवेकानन्दस्य जन्मदिने तस्य पुण्यस्मृतिमुद्दिश्य श्रद्धामेव ज्ञापयितुमहमत्र समागतवान् । स्वामिनः पुस्तकावलीमहमाद्यन्तं सर्वामेव यथायथं समनोयोगमधीतवान् । तत्फलेन पूर्व स्वदेशं प्रतियौ मम प्रेम स्नेहश्च आस्तां, तौ अधिकतरमुपचितौ जातौ ।```युवकान् प्रति एष एव ममानुरोधः, स्वामिविवेकानन्दो यदेव स्थानमधिवसति स्म, यत्र च देहं तत्याज तत्स्थानस्य भावधारां अन्ततः कियत्परिमितामपि न संगृह्य अद्य रिक्तहस्तेन मा प्रत्यावर्त्तध्वम् ।” स्वामिनः समसामयिकानां परवर्त्तिनां वा भारतीय मुखोज्ज्वलकारिभारताधि- वासिनामुपरि तस्य जीवनस्य तदीयोपदेशानाञ्च प्रभावः कियानपतत् तत् महात्मनो गान्धेः भाषणेन प्रकाशितं जातम् ।